________________
विशेषा०
॥६५७॥
Jain Educationa Internat
स्वकमेवात्मानमेव निर्दिशति । कुतः ? इत्याह- यतो यस्मात् स्त्री-पुं- नपुंसकरूपः सर्वोऽप्यसौ निर्देष्टा तदुपयुक्तत्वात् तेनैव निर्देश्येन सामायिकेन समानलिङ्गो भवति, सामायिकार्थस्य रूढितो नपुंसकत्वात्, स्त्रियाः, पुंसः, नपुंसकस्य वा सामायिकमभिदधानस्य नपुंसकलिङ्गनिर्देश एव भवतीति ।
आह- यदि पुनर्भावस्य द्वैविध्याद् निर्देश्य-निर्देशकोभयवशतोऽपि निर्देशः स्यात् तर्हि को दोषः १, तथाहि - द्विविधो भावोऽर्थस्य विज्ञानं, परिणतिश्चः भावाभिधायिनथ शुद्धनयाः । तत्र यदा पुमानुपयुक्तः सामायिकं नपुंसकमाह, तदा वक्तुर्नपुंसकविज्ञानानन्यत्वाद् नपुंसकनिर्देशोऽस्तु, निर्देष्टुव मुखरोमादिरूपपुरुषपरिणतिमयत्वात् पुंनिर्देशोऽपि भवत्विति । अत्रोच्यते- भावस्य द्वैविध्ये सत्यपि वस्तुनो विज्ञानमेवेहोप योगरूपमधिक्रियते, न पुनस्तत्परिणतिः, विज्ञानरूपस्यैवेह निर्देशस्याभिप्रेतत्वात् ।
आह- ननु शब्दोऽपि पुद्गलद्रव्यरूपः 'निर्दिश्यते' इति कृत्वा निर्देश एवोच्यते, तत् किमिति तदुपयोगरूप एव निर्देशोऽधिक्रियते । नैतदेवम्, शब्दस्य द्रव्यमात्रत्वात् ज्ञानलक्षणभावग्राहिणञ्च शब्दनयाः । अत एव पुरुषपरिणतेः सत्यपि भावत्वे न तस्या इह ग्रहणम्, किन्तु विज्ञानरूप एवात्र निर्देशो गृह्यते । तत्रैतत् स्यात् शब्दप्रधान एव हि शब्दनयः, तत् कथमिह शब्दरूपो निर्देशो नेष्यते ? । तदयुक्तम्, भावार्थापरिज्ञानात् शब्दनयो हि शब्दादेवार्थज्ञानमभ्युपगच्छति, तद्भावभावित्वात् तस्य । एवं च सति शब्दस्य ज्ञानकारणत्वात्, कारणस्य च द्रव्यत्वात् द्रव्यस्य च भावशून्यत्वात् शब्दनयस्य च भावग्राहित्वाद् न शब्दमात्रप्रधानता युक्तेति ।
अपरस्त्वाह- ननु यद्युपयुक्तो वक्ता यमर्थमाह, तद्वशाद् निर्देश इष्यते, ततो निर्देश्यवशाद् निर्देश इति प्राप्तम् एवं च सति संग्रह - व्यवहारयोः शब्दनयस्य च को विशेषः ? । अत्रोच्यते- संग्रह व्यवहारयोरुपयुक्तस्याऽनुपयुक्तस्य वा वक्तुरात्मनिरपेक्षोऽभिमाशात् शब्दमात्र निर्देशः, इह तु वाद्यवस्तुप्रत्ययमात्र मुररीकृत्य य उपयोगस्तस्मादनन्यत्वादभिधातुर्जीवत्योपयोगरूपं स्वरूपमेव निर्देशोऽङ्गीक्रियते ।
आह-यथेत्रम्, ऋजुमूत्रादस्य को विशेषः, तस्यापि हि निर्देशकवशाद् निर्देशः, स एवेहाप्यापन्नः ? । अत्राप्युच्यतेऋजुमूत्राभिप्रायेणानुपयुक्तस्यापि वक्तुः शब्दमात्रं निर्देशः, अत्र तु वाच्योपयोग एव निर्देश इति विशेषः, इत्यलं प्रसङ्गेनेति ।। १५२९ ।। तदेवं नयमतान्यभिधाय सम्यग् मिथ्याविभागमा ह
८३
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥६५७॥
www.jainetbrary.org