________________
विशेषा.
॥६५६॥
यदि वा, उच्यते भवता- अनुपयुक्तोऽसौ पुरुषः स्त्रियं भाषते, अतो न खीरूपता प्रतिपद्यते । तदयुक्तम् , यत एवं सति तकोऽप्तावनुपयुक्तभाषकोऽज्ञानी, उपयोगशून्यत्वात् , घटादिवत् । ततश्च न तद्वचनं निर्देशः, उपयोगपूर्वकत्वाभावात् , उन्मत्तादिवचनवत् । कुतः ? इत्याह- येनैतद् मतं संमतं विपश्चिताम् । किम् ? इत्याह- उपयोगपूर्वकतया निश्चित्य देशनं भाषणं देशो निर्देशः, अथवा, निश्चितो देशो भाषणं यत्रासौ निर्देशो भण्यते । न च निरुपयोगभाषकस्यैवं संभवतीति ॥ १५२६ ॥ एतदेव भावयति-- सो जइ नाणुवउत्तोऽणुवउत्तो वा न नाम निद्देसो । निदेसोऽणुवउत्तो य बेइ सद्दो न तं वत्थु ॥१५२७॥
हन्त ! स यदि निश्चितदेशो निर्देशोऽभ्युपगम्यते, तर्हि तद्वान् देवदत्तादिर्नानुपयुक्तो युज्यते । अथानुपयुक्तोऽसौ, तर्हि न तस्य निर्देशः, निश्चितज्ञानपूर्वकत्वात् तस्य । किंबहुना ?, 'निर्देशः, अनुपयुक्तश्च तद्वान्' इत्येवंभूतं यद् मतं तच्छन्दनयोऽवस्त्वेव ब्रूते, विरुद्धत्वात् , 'अचेतन आत्मा, अश्रावणः शब्दः' इत्यादिवदिति ।। १५२७ ।।
अथोपसंहरबाह
तेम्हा जं जं निहिस्सइ तदुवउत्तोस तम्मओ होइ । वत्ता वयणीजाओ अनन्नो त्ति समाणलिंगो सो॥१५२८॥
तस्मादेतत् शब्दनयमतस्य तात्पर्यम्- यः पुरुषादिर्वक्ता यं यं च्यादिकमर्थं तदुपयुक्तः स्त्र्याधुपयुक्तो निर्दिशति वक्ति, स तन्मयो वाच्यार्थात्मको भवति । कुतः ? इत्याह- वक्ता वाच्योपयुक्तो वचनीयादनन्य एव भवतीति कृत्वा । ततो वक्तृवचनीयसमानलिङ्गोऽयमस्य निर्देश इति स्थितम् ॥ १५२८ ॥
प्रकृतमुपदर्शयन्नाह
सामाइओवउत्तो जीवो सामाइयं सयं चेव । निदिदसइ जओ सव्यो समाणलिंगो स तेणेव ॥ १५२९॥ ___ इह प्रस्तुते सामायिके निर्देश्य उपयुक्तो निर्देष्टा जीवः सामायिकमेव 'भवति' इति शेषः । ततश्चासौ सामायिक निर्दिशन्
१ स यदि नानुपयुक्तोऽनुपयुक्तो वा न नाम निर्देशः । निर्देशोऽनुपयुक्तश्च ब्रूने शब्दो न तद् वस्तु ।। १५२७ ॥ २ तस्माद् यद् यद् निर्दिशति तदुपयुक्तः स तन्मयो भवति । वक्ता पचनीयादनन्य इति समानालिङ्गः सः ॥ १५२८ ॥ ३ सामायिकोपयुक्तो जीवः सामायिक स्वकमेव । निर्दिशति यतः सर्वः समानलिङ्गः स तेनैव ॥ १५२९ ॥
Jan Educ
a
t
For
a
nd Private Use Only
www.janetbrary.org