SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥६५५।। Jain Education Internatio करणो निर्देष्टा यद् यस्माद् निर्देश्यादनन्योऽभिन्नः । इदमुक्तं भवति वक्तुस्त्रिलिङ्गवतोऽपि पुमांसमभिदधतः पुंनिर्देश एव, स्त्रियं प्रतिपादयतः स्त्रीनिर्देश एव, नपुंसकं निर्दिशतो नपुंसकनिर्देश एव, वाच्य उपयुक्तस्य वक्तुर्वाच्यादभिन्नत्वादिति ।। १५२३ ।। तथाचाह थीं निद्दिसइ जइ पुमं थी चेत्र तओ जओ तदुवउत्तो । श्रीविन्नाणाणन्नो निद्द्ट्ठिसमाणलिङ्गो ति ॥ १५२४॥ स्यादेः समानलिङ्गं स्त्र्यादिकं निर्दिशतः स्त्र्यादिनिर्देश इति तावत् किल प्रतीतमेव । यद्यपि च पुमान् कर्ता स्त्रियं कर्मतापत्रां निर्दिशति, यथा- 'वासवदत्ते ! इदमित्थं विधेहि' इति तदपि तकोऽसौ निर्देष्टा पुरुषः स्त्रयेव भवति । कुतः ? इत्याह- यतो यस्माद तदुपयुक्तः स्त्र्युपयुक्तः स्त्रीविज्ञानाद् वासवदत्ताध्यवसायादनन्योऽभिन्नः सन् निर्दिष्टया स्त्रिया समानलिङ्गः पुरुषो भवति । ततश्च यदा पुरुषो नपुंसकमभिधत्ते तदापि निर्दिष्टसमानलिङ्गत्वाद् नपुंसकमेवासौ । एवं स्त्रियां नपुंसके च निर्देष्टार निर्दिष्टसमानलिङ्गता योजनीयेति ।। १५२४ ॥ ननु कथं स्त्रीविज्ञानादनन्यः स पुरुषोऽपि त्र्येव भवति, न पुरुषोऽपि स्यात् ? इत्याह इस मं तो नत्थी अह थी न पुमं नवा तदुवउत्तो । जो श्रीविण्णाणमओ नो थी सो सव्वहा नत्थि ॥ १५२५॥ यदि स निर्देष्टा पुमान्, ततो न स्त्री- न खल्वसौ स्त्र्युपयोगवानित्यर्थः । अथासौ स्त्र्युपयोगोपयुक्तत्वात् स्त्रीत्यभ्युपगम्यते, तर्हि न पुमान्- न पुंस्त्वेनायमेष्टव्यः, किन्तु स्त्र्युपयोगोपयुक्तत्वात् त्र्येवासौ मन्तव्य इत्यर्थः । अथ नैवम्, तर्हि नवा न खल्वसौ तदुपयुक्तः स्त्र्युपयुक्तः, तदुपयुक्तस्य सर्वथैव पुंस्त्वविरोधात् । किं बहुना ?, यः स्त्रीविज्ञानमयः स्त्रयुपयोगोपयुक्तोऽपि न स्त्री, किन्तु पुमान् नपुंसकं वा स एवंभूतः पदार्थः सर्वथा नास्ति - असन्नेव, खरविषाणवदिति ।। १५२५ ।। अर्थानुपयुक्तः स्त्रियं भाषमाणोऽपि पुरुषो भविष्यतीत्याशङ्कयाह भास वाणुवत्तो जइ अन्नाणी तओ न तव्त्रयणं । निद्देसो जेण मयं निच्छियदेसो त्ति निद्देसो ॥१५२६ ॥ १ स्त्रियं निर्दिशति यदि पुमान् रथ्येव सको यतस्तदुपयुक्तः । स्त्रीविज्ञानानन्यो निर्दिष्टसमानलिङ्ग इति ॥ १५२४ ॥ २ यदि स पुमांस्ततो न स्त्री अथ स्त्री न पुमान् नवा तदुपयुक्तः । यः स्त्रीविज्ञानमयो नो खी स सर्वथा नास्ति ॥ १५२५ ॥ ३ भाषते वानुपयुक्तो यद्यज्ञानी सको न तद्वचनम् । निर्देशो येन मतं निश्चितदेश इति निर्देशः ॥ १५२६ ।। For Personal and Private Use Only बृहतिः । ॥६५५॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy