________________
विशेषा
बृहद्वृत्तिः ।
॥६५४||
इति । यदि संबद्धं, तर्हि चिउहिं समएहि लोगो भासाए निरन्तरं तु होइ फुडो' इत्यादिवचनात् त्रिभुवनव्यापित्वात् तद्गतं समस्तमपि पदार्थजातं प्रकाशयतु, संबद्धत्वाविशेषादिति ॥ १५२० ॥
अथासंबद्धं प्रकाशयति, तत्राह
निविण्णाणतणओ नासंबद्धं तयं पईवो व्व | भासयइ असंबद्धं अह तो सब् पगासेउ ॥ १५२१ ॥
नासंबद्धं तत् पदार्थान् प्रभासयति । कुतः ? इत्याह-निर्विज्ञानत्वात्- विज्ञानादन्यत्वे सत्यसंबद्धत्वादिति भावः, अयं च हेतुः। प्रदीपवदिति दृष्टान्तः । विज्ञानमसंबद्धमपि वस्तु प्रकाशयति, न च वचनं विज्ञानरूपम् , अतो नासंबद्धमर्थ प्रकाशयति, प्रदीपवत् । अथासंबद्धमपि तद् वस्तु प्रकाशयति, तर्हि सर्वमपि प्रकाशयतु, असंबद्धत्वाविशेषात् । तस्माद् वाच्यप्रत्ययकारणत्वेन तद्धर्मो वचनमिति ॥ १५२१॥ आह- ननूक्तम्- वचनमर्यादात्मलाभ लभते, प्रदीपवत् , अतः कथमिदं वक्तुरेवेष्यते ? इत्याह
जइ वि वयणिज्ज वत्ता बज्झ-ब्भंतरनिमित्तसामण्णं । वत्ता तहवि पहाणो निमित्तमभंतरं जं सो॥१५२२॥
इह यद्यपि वचनीयं वक्ता च यथासंख्यं बाह्यमभ्यन्तरं च वचनस्य सामान्यं निमित्तं कारणम् , तथापि वक्ता प्रधानः । कुतः ? इत्याह- यद् यस्मादन्तरङ्ग प्रत्यासन्न निमित्तमसौ । तस्माद् वचनस्य वक्त्रधीनत्वाद् यदेव वक्तुर्लिङ्गं तदेव सामायिकस्य ऋजुमूत्रनयमतेन लिङ्गमिति स्थितम् ।। १५२२ ॥
'उभयसरिच्छं च सद्दस्स' इत्येतद् व्याचिख्यासुराह
सद्दो समाणलिंगं निदेसं भणइ विसरिसमवत्थु । उवउत्तो निदिट्ठा निदिस्साओ जओऽणण्णो॥१५२३॥
शब्दप्रधानो नयः शब्दो निर्देशं वचनमिच्छति । किंविशिष्टम् ? इत्याह- समानलिङ्गं निर्देश्य-निर्देशकयोस्तुल्यमेव लिङ्गमसाविच्छतीत्यर्थः । विसदृशं त्वसमानलिङ्ग निर्देशमघटमानकत्वादवस्तुत्वेनैव मन्यते । कुतः ? इत्याह- उपयुक्तो निर्देश्येऽर्थेऽर्पितान्तः
१ गाथा ३७५। २ निर्विज्ञानत्वतो नासंबद्धं तत् प्रदीप इव । भासयत्यसंबद्धमय ततः सर्व प्रकाशयतु ॥ १५२१ ॥ ३ यद्यपि वचनीयं वक्ता याद्या-उभ्यन्तरनिमित्तसामान्यम् । वका तथापि प्रधानं निमित्तमभ्यन्तरं यत् सः ॥ १५२२ ॥ ४ गाथा १५०५। ५ शब्दः समानलिङ्ग निर्देशं भणति विसदृशमवस्तु । उपयुक्तो निर्देष्टा निर्देश्याद् यतोऽनन्यः ॥ १५२३ ॥
तरकुमार
||६५४॥
JanEducationaintermato
For Personal and Private Use Only