SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहदत्तिः । ॥६५३॥ 'निविट्ठस्स वि कस्सचि नणूवघायाइओ तयं जुत्तं । ते तस्स सकारणाओ इहरा थाणुस्स वि हवेजा॥१५१८॥ ननु न केवलं निर्देशकस्य, किन्तु निर्दिष्टस्याप्यभिधेयस्यापि कस्यचित् तस्करादेवचनादुपघातादयो दृश्यन्ते, यथा- 'बध्यता, हन्यतां चायं तस्करः, मुच्यतां चायम्' इत्याद्युक्ते तस्य विषादाद्युत्पत्तरुपघातादयोऽध्यक्षत एवोपलभ्यन्ते । अतस्तदर्शनाद् निर्दिष्टस्यापि संबन्धि तद् वचनं वक्तुं युज्यते । अत्रोत्तरमाह- 'ते इत्यादि' य इष्टा-निष्टवचनश्रवणात् तस्करादेनिर्दिष्टस्यानुग्रहादयो दृश्यन्ते ते तस्य स्वकीयश्रवणेन्द्रिय-मनःपुण्य-पापादिकात् कारणादेव मन्तव्याः, न त्विष्टा-निष्टवचनोक्तिमात्रात् , अन्यथा श्रोत्रादिक| रणविकलानां स्थावादीनामपि तदुक्तिमात्रात् ते भवेयुरिति ॥ १५१८ ॥ वक्तृधर्मत्वमेव वचनस्य हेत्वन्तरोक्तेः समर्थयन्नाह सेरनामोदयजणियं वयणं देहो व्व बत्तुपज्जाओ । तं नाभिधेयधम्मो जुत्तमभावाभिहाणाओ ॥१५१९॥ 'वक्तृपर्यायो वचनम्' इति प्रतिज्ञा, स्वररूपनामकर्मोदयजन्यत्वात् , इह यद् नामकर्मोदयजन्यं तत् तस्यैव वक्तुर्देवदत्तादेः पर्यायः, यथा तस्यैव देहः, नामकर्मोदयजन्यं च वचनम् , तस्मात् तस्यैव वक्तुः पर्यायः । तत् तस्माद् न वचनमभिधेयधर्मो युक्तम् , किन्त्वभिधातुरेव । उपचयमाह- अमावस्यापि वचनेनाभिधानात् । इदमुक्तं भवति- अभावोऽपि हि वचनेनाभिधीयते, न च वचनं तद्धर्म इति वक्तुं शक्यते, अभावस्यासत्त्वात् , यदि च वचनं तद्धर्मः स्यात् , तदा सोऽपि भावः स्यात् , वचनाश्रयत्वात् , देवदत्तादिवदिति ॥ १५१९ ॥ यस्यापि च घटादिशब्दाभिधेयस्य घटादेर्भावस्य वचनं तत्प्रत्ययकारणत्वाद् धर्मत्वेनाभ्युपगम्यते, तत्रापि पृच्छयते । किम् ? इत्याह भावम्मि वि संबद्धं तमसंबद्धं व तं पगासेज्जा । जइ संबई तिहुयणवावि त्ति तयं पगासेउ ॥ १५२० ॥ भावेऽपि घटादिके वचनाभिधेये पृच्छामो भवन्तं- तद् वचनं तत्र भावे किं संबद्धं सत् तं भावं प्रकाशयति, आहोखिदसंबद्धम् ? निर्दिष्टस्यापि कस्यचिद् ननूपघातादितस्तद् युक्तम् । ते तस्य स्वकारणादितरथा स्थाणोरपि भवेयुः ॥ १५१८॥ २ स्वरनामोदयजनितं वचनं देह इव वक्तृपर्यायः । तद् नाभिधेयधर्मों युक्तमभावाभिधानात् ॥ १५१९ ॥ ३ भावेऽपि संबद्धं तदसंबद्धं वा तं प्रकाशयेत् । यदि संबद्धं त्रिभुवनव्यापीति तत् प्रकाशयतु ॥ १५२० ॥ ॥६५३॥ Jain Education interna For and Use Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy