________________
एव निर्भरं प्रसुप्ता । तेनापि च तद्भन्धुनाऽकस्मादेव गृहप्रविष्टेन दृष्टं तत् तादृशम् । ततश्चिन्तितमनेन- अहो ! विनष्टं मद्गृहम् , विटः विशेषा०
BE कोडप्ययं मद्भार्यासमीपे प्रसुप्तस्तिष्ठति । इति कोपावेशादाकृष्टः कृपाणः । ततः स्मृतं व्रतम् । विलम्बितं च सप्तपदापसरणकालम् ।
अत्रान्तरे तद्भगिनी बाहुलतिका निद्रावशेन तद्भार्याया मस्तकेनाक्रान्ता । ततः पीड्यमानया तद्भगिन्या प्रोक्तम्- हले! मुश्च मम बाहुम्, ॥६०९।। दयेऽत्यर्थमहम् । ततः स्वरविशेषेण ज्ञाताऽनेन स्वभागिनी । अहो ! निकृष्टोऽहम् , मनागेव मया न कृतमिदमकार्यम् , तत उत्थिते
ससंभ्रमं भगिनी-भायें इति । कथितश्च सर्वैः स्वव्यतिकरः परस्परम् । ततो यथोक्ताभिग्रहमात्रस्याऽप्येवंभूतं फलमुद्रीक्ष्य संविग्नः प्रव्रजितोऽसाविति । तदत्र स्वभगिनीमपि परपुरुषाभिप्रायेण जिघांसोस्तस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः । प्रस्तुतयोजना तु श्रावकभार्योदाहरणवदिति ।
कोङ्कणकदारकोदाहरणं यथा- कोकणकविषय एकस्य पुरुषस्य लघुदारकोऽस्ति । भार्या तु पृता । अन्यां च परिणेतुमिच्छताऽपि सपत्नीपुत्रोऽस्याऽस्तीति न कोऽपि ददाति । अन्यदा च सहैव तेन दारकेणासावरण्ये काष्ठानयनाय गतः । तत्र च कस्यापि पित्रा काण्डं मुक्तम् । तदानयनाय च दारकः प्रेषितः, गतश्चायम् । अत्रान्तरे दुष्पितुस्तस्य चलितं चित्तम् , यदस्य दारकस्य सत्ककारणेनाऽन्यां भार्या मम न कोऽपि ददाति । ततोऽन्यं काण्डं क्षिप्त्वा विद्धोऽसौ दारकः । ततो महता स्वरेणोक्तं बालकेनतात ! किमेतत् काण्डं त्वया मुक्तम् ?, विद्धोऽस्म्यनेनाऽहम् । ततो निघृणेन पित्राऽन्यत् काण्डं मुक्तम् । ततो ज्ञातं दारकेण- 'हन्त ! बुक्को मारयत्येष माम् , इति विस्वरं रटन् निकृष्टेन तेन मारितोऽसाविति । पूर्वमन्यस्य बाणं मुञ्चता पित्राऽनाभोगत एवाऽहं विद्ध इत्यवबुध्यमानस्य भावाननुयोगः, पश्चाद् यथावस्थिताधिगमे तस्य भावानुयोगः । अथवा, 'संरक्षणार्थमपि तं बालकं मारयामि' इत्य- A ध्यवस्यतः पितुर्भावाननुयोगः, तद्रक्षाध्यवसाये तु भावानुयोगः । एवं विपरीतभावप्ररूपणे भावाननुयोगः, अविपरीतभावप्ररूपणे तु भावानुयोग इति ।
___ अथ नकुलोदाहरणम्- पदातेः कस्यचिद् भार्या गुर्विणी जाता। नकुलिका च काचित् तद्गृहवृत्त्याश्रिता गुर्विणी पदातिभार्यया सहैकस्यां रजन्यां प्रमूता। तस्या नकुलो जातः । इतरस्यास्तु पुत्रः। ततोऽस्य समीपे स्थितो नकुलः सदैव तिष्ठति । अन्यदाच पदातिभार्याया द्वारे खण्डयन्त्या मध्ये मश्चिकायां स्थितो बालकः सर्पण दष्टः, मृतश्च । ततो मश्चिकाया उत्तरन् नकुलेन दृष्टो विषधरः, * ज्डशः कृत्वा मारितश्च । ततो द्वारे पदातिभार्यायाः समीपे गत्वा शोणितोपलिप्तवक्त्रायवयवोऽसौ चाटूनि कर्तुमारब्धः, दृष्टश्च ॥६०९॥
१ क.छ. कदश ए'।
RSORRRC
JainEducatiana intemat
For P
o
nt Private Use Only
www.janeiorary.org