SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ तया । ततो 'नूनं मदीयपुत्रो मारयित्वा भक्षितोऽनेन' इति विचिन्त्य कोपावेशाद् सुसलेन हत्वा मारितो नकुलः, गता च पुत्रसमीपे । दृष्टश्च विशेषा०पुषण सह विनष्टः सर्पः । ज्ञातं च यथा सर्पण पुत्रः, नकुलेन तु सर्पो निहतः। ततो हन्त ! इत्थं निरपराधोऽपि, उपकार्यपि मया निकृष्टया हतो वराको नकुल इति विचिन्त्य द्विगुणतरं शोकमापन्ना। पूर्वमनपराधिनमप्यपराधिनं विज्ञाय नकुलं घनत्यास्तस्या भावाननुयोगः, यथावत्परिज्ञाने तु भावानुयोग इति । प्रस्तुतयोजना त्वनन्तरोक्तवदिति । ___ अथ कमलामेलोदाहरणम्-तत्र द्वारवत्यां नगाँ बलदेवपुत्रो निषधः । तस्यापि पुत्रः सागरचन्द्रः। स च रूपेणातीवोत्कृष्टः, शम्बादीनां च कुमाराणां सर्वेषामप्यतिप्रियः । तस्यामेव च द्वारवत्यां नगर्यामन्यस्य राज्ञो दुहिता कमलामेला नाम समस्ति । सा चोग्रसेनतनयस्य नभःसेनकुमारस्य दत्ता, अता च तिष्ठति । अन्यदाच तत्र नारदः सागरचन्द्रस्य समीपं गतः । तेनाऽप्यभ्युत्थित उपवेश्य प्रणम्य च घृष्टः- दृष्टं भगवन् ! आश्चर्य किमपि कापि ? । नारदेनोक्तम्- दृष्टं कमलामेलाभिधानराजपुत्रिकाया न खलु ममैव, किन्तु भुवनत्रयस्याऽप्याश्चर्यकारि रूपम् । सागरचन्द्रेणोक्तम्- किं दत्ता कस्यचित् सा। नारदेनोक्तम्- दत्ता, परं नाद्यापि परिणीता। कथं पुनर्मम सा संपत्स्यते इति सागरचन्द्रेणोक्ते 'न जानाम्येतदहम्' इत्यभिधाय गतो नारदः । सागरचन्द्रस्तु तहिनादारभ्य न शयानो नाप्यासीनः कापि रतिं लभते । तामेव कन्यकां फलकादिष्वालिखत् । तन्नाममन्त्रजापं चानवरतं कुर्वन्नास्ते । नारदोऽपि कमलामेलान्तिकं गतः । तयापि तथैवाश्चर्य किमपि दृष्टमिति पृष्टः कलहदर्शनप्रियतया स प्राह- दृष्टमाश्चर्यद्वयं मया, सागरचन्द्रे सुरूपत्वम्, नभःसेने तु कुरूपत्वम् । ततो झगित्येव सा विरक्ता नभःसेने, अनुरक्ता च सागरचन्द्रे । तत्माप्तिचिन्तातुरा च समाश्वासिता नारदेन सा । वत्से ! स्थिरीभव, संपत्स्यतेऽचिरादेव तवाऽयम् । इत्युक्त्वा गतःसागरचन्द्रसमीपे 'वत्स ! इच्छति त्वां सा' इत्यभिधाय च गतः । ततो विरहावस्थाव्यथिते प्रलपति च सागरचन्द्रे आतेः सर्वोऽपि मात्रादिस्वजनवर्गः। खिद्यन्ते यादवाः । तदत्रान्तरे समायातः कथमपि सागरचन्द्रसमीपे शम्बकुमारः। दृष्टश्च तेनाऽसौ तदवस्थः । ततः पृष्ठतस्तस्य स्थित्वा हस्तद्वयेनाच्छादिते तदक्षिणी शम्बेन । सागरचन्द्रेणोक्तम्- किं कमलामेला ?। शम्बेनोक्तम्- नाहं कमलामेला, किन्तु कमलामेलोऽहम् । ततः सागरचन्द्रेण 'शम्बोऽयम्' इति ज्ञात्वा प्रोक्तम्- सत्यमेतत् , त्वमेव मम कमलदीर्घलोचनां कमलामेला मेलयिष्यसि, कोऽत्रार्थेऽन्यः समर्थः इति । ततोऽन्यैर्यदुकुमारैः पीतमद्यः परवशीभूतः शम्बो ग्राहितस्तद्दापनप्रतिज्ञाम् । उत्तीर्णे च मदभावे विचिन्तितं शम्बेनअहो ! आलं मयाऽभ्युपगतम् , अशक्यं घेतद् वस्तु, कयमियं प्रतिज्ञा निर्वाहयिष्यते । ततः प्रद्युम्नपार्थात् प्रज्ञप्तिविद्या याचिता शम्बेन । विवाहदिवसे च बहुभिर्यादवकुमारैः परिवृतेन तेन सुरजां पातयित्वा पितृगृहादाकृष्य नीता परिरुद्याने कमलामेला । eletelecated ६१०॥ For Personal and ma n y
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy