________________
बृहद
विशेषा ॥६११॥
नारदं च साक्षिणं कृत्वा कारितस्तत्पाणिग्रहणसंबन्धः सागरचन्द्रस्य । ततः सर्वेऽपि कृतविद्याधरस्वरूपाः क्रीडन्तस्तिष्ठन्ति उद्याने । पितृ-श्वशुरपाक्षिकश्चान्वेषयद्भिदृष्टा कृतविद्याधररूपा नवपरिणीतवेषधारिणी च क्रीडन्ती कमलामेला। विद्याधरैर पहत्य परिणीता कमलामेलेति कथितं तैर्वासुदेवस्य । निर्गतश्च विद्याधरोपरि कुपितः सबलवाहनोऽसौ । लग्नं च महदायोधनं तावत्, यावत् पश्चाच्छम्बः परिहतक्रियरूपः पतितो जनकस्यांहियुग्मे । ततश्चोपसंहृतः संग्रामः । दत्ता च कृष्णन कमलामेला सागरचन्द्रस्यैव । गताश्च सर्वे स्वस्थानम् । तत्र सागरचन्द्रस्य शम्बं कमलामेलां मन्यमानस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः । विपरीतादिपरूपणयोजना तु प्रस्तुता पूर्ववदिति ।
अथ शम्बस्योदाहरणम्- वासुदेवात् , शेषजनाच्च सदैव शृणोति जाम्बुवती, समस्तानामप्यालीनां मन्दिरं त्वत्पुत्रः शम्ब इति । ततो जाम्बुवत्या विष्णुरभिहित:- मया पुत्रसत्कैकाऽप्यालिने दृष्टा । विष्णुना प्रोक्तम्- आगच्छ, येनाऽद्य दर्शयामि । ततो जाम्बुवती उत्कृष्टलावण्यमाभीरीरूपं कारिता । खयं पुनराभीररूपं कृत्वा दण्डहस्तः स्वयं पृष्ठे व्यवस्थितः, अग्रतस्तु मस्तकन्यस्तदधिहण्डिका जाम्बुवती कृता । प्रविष्टोऽथ दधिविक्रयार्थ नगरीमध्ये । दृष्टा च शम्बेन माता तदोत्कृष्टरूपाऽऽभीरीति विज्ञाय प्रोक्ता शम्बेनैषा । आगच्छ मद्गृहम् , सर्वस्यापि त्वदीयदनो यावन्मात्रं मूल्यं याचसे, तदहं दास्यामि, इत्यग्रतः स्वयम् , पृष्ठतस्त्वाभीरी, पश्चात् स्वाभीरः । ततः शून्यदेवकुलिकायामेकस्यां गत्वा प्रोक्ता शम्बेनाभीरी- प्रविशैतन्मध्ये, मुश्च दधि, तया च विरूपाभिप्राय तं विज्ञाय प्रोक्तम् - नाहमत्र प्रविशामि, द्वारस्थिताया एव गृहाण दधि, प्रयच्छ मूल्यम् । बलादपि प्रवेशयिष्यामीत्यभिधाय गृहीता शम्बेन बाहौ । ततो धावित्वा द्वितीयबाहौ लग्न आभीरः। द्वयोरपि चाकर्षण-विकर्षणं कुर्वतोभयं भण्डनम् । ततः कृतं सहजरूपमात्मनः, जाम्बुवत्याश्च विष्णुना । तच्च दृष्ट्रा लज्जितो नष्टः शम्बः । नागच्छति चावसरेऽपि लज्जया राजकुले । ततोऽन्यदिवसे विष्णुनियुक्तबृहत्पुरुषैः कष्टेनानीयमानः क्षुरिकया वंशकीलकं घटयन्नागच्छत्यसौ । प्रणामे च कृते पृष्टो वासुदेवेन-शम्ब ! किमेतत् क्षुरिकया घव्यते ? । तेनोक्तम् - कीलकोऽयम् । किमर्थः पुनरसौ। यः पर्युषितानतीतजल्पान् वदिष्यति तन्मुखे आहननार्थ इति । तदत्र शम्बस्य मातरमप्याभीरी मन्यमानस्य भावाननुयोगः, पश्चाद् यथावदवगमे तु भावानुयोगः । प्रस्तुतयोजना तु पूर्ववदिति ।
अथ श्रेणिककोपोदाहरणम् - राजगृहे नगरे समवस्तस्य भगवतः श्रीमन्महावीरस्य श्रेणिकनराधिपो राझ्या चेल्लणया सह माघमासे हिमकणप्रवर्षिणि महाशीते पतिते वन्दनार्थ गतः । ततो निवर्तमानस्य च तस्य राझ्या चेल्लणया मार्गासनस्तपःकर्षितशरीरः
१२. ग. छ. 'शम्ब'। २ क. ग. घ. 'मिति' ।
SerernationaOoOILDRONACHA
॥६११॥
JamEducational Intemationa
Forson and Private Use Only
ww.jainelibrary.org