SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ विशेषा० सर्वथास्यनावरणो मेरुशिखरमिव निष्कम्पः पतिमाप्रतिपन्नोऽभिभवकायोत्सर्गे स्थितः संध्यायां दृष्टः कोऽपि तपस्वी। गताऽसौ तद्गुणानेव मनसि ध्यायन्ती गृहम् । सुप्ता च रजन्यामनेकशीतातपहावरणपाता पल्यथे। निर्गतश्च प्रावरणेभ्यो बहिस्तात् कथमप्येकः करः। शीताभिभूतश्चायमतीव स्तब्धीभूतः । तदनुसारेण च समस्तमपि शरीरं तथा व्याप्तं शीतेन. यथा निद्राभरेऽपि जागरित तया । ततः क्षिप्तो हस्तः प्रावरणमध्ये | स्थितश्च हृदये स तथाकायोत्सर्गस्थायी महामुनिः। ततस्तद्गुणोत्पन्नातुच्छबहुमानया विस्मितया च प्रोक्तं तया- 'स तपस्वी किं करिष्यति ?' इति । 'यद्यकेनाप्यावरणबहिनिर्गतेन हस्तेनाऽहमेतावती शीतबाधां प्राप्ता, तारण्ये निरावरणो रूक्षस्तपःकर्षितश्चैवंविधमहाशीतवाधितः स तपस्वी किं करिष्यति ?' इति तस्याश्चित्ताभिप्रायः। अयं चालुतया श्रेणिकनृपस्यान्यथा परिणत:- 'नूनमनया कस्यापि संकेतो दत्तः, तदन्तिके च मयि संनिहिते गन्तुं न शकिता, ततस्तञ्चित्तखेदं चेतसि निधायैतदुक्तम् ।' ततो महता खेदेन तस्य विभाता रजनी । चलितः श्रीमन्महावीरस्यान्तिकम् । गच्छता चातिकोपांवेशाद् निरूपितोऽभयकुमार:- सर्वाभिरेवान्तःपुरिकाभिः सह प्रदीपय सर्वाण्यप्यन्तःपुरगृहाणि । ततोऽभयकुमारेण चिन्तितम् - केनाऽप्यभिनवोत्पन्नकोपावेशनैवमसौ वक्ति । प्रथमकोपे च यदुच्यते तत् क्रियमाणं न खलु परिणतौ सुख यति । अथवा, अनुवर्तनीयं गुरूणां वचनम् । अतः शून्यां हस्तिशालामेका प्रदीप्य प्रस्थितः सोऽपि भगवद्वन्दनार्थम् । इतश्च भगवान् पृष्टः श्रेणिकराजेन- भगवन् ! चेल्लणा, किमेकपनी, अनेकपत्नी वा। भगवता प्रोक्तम्- एकपत्नीति । ततो निवृत्तः सत्वरमेव गृहाभिमुखमभयकुमारनिवारणाय । मार्गे चागच्छन् वीक्षितोऽसौ । पृष्टश्च-किं दग्धमन्तःपुरम् । तेनोक्तम्- दग्धम् । राज्ञा कुपितेनाभ्यधायि-त्वमपि तत्रैव प्रविश्य किं न दग्धोऽसि ? । कुमारेण प्रोक्तम्- किं ममानिप्रवेशन, व्रतमेव ग्रहीष्याम्यहम् । ततो मा भूदस्य महान् खेद इति कथितं यथावदेवेति । तदत्र सुशीलामपि चेल्लणां कुशीलां मन्यमानस्य राज्ञो भावाननुयोगः, यथावदवगमे च तदनुयोगः। एवमौदयिकादिभारान् विपरीतस्वरूपान् प्ररूपयतो भावाननुयोगः, यथावस्थितस्वरूपांस्तु तान् प्ररूपयतो भावानुयोग इति । तदेवमयंकार्थिकानि प्रतिपादयता यदुक्तम्'अणुभोगो य निओगो भास-विभासा य' इत्यादि, तत्र सनिक्षेपः, सोदाहरणचाभिहितोऽनुयोगः, तत्प्रतिपक्षत्वेनान योगश्च ।। १४१८ ॥ सांप्रतं नियोगस्वरूपमभिधित्सुर्भाध्यकारः पाह'नियओ व निच्छिओ वा हिओ व जोगो मओ निओगो त्ति । नेओ सभेअ-लक्खण-सोदाहरणोऽणुओगो व्व॥१४१९॥ ॥६१२॥ १ गाथा १३८५। २ नियतो वा निश्चितो वा हितो वा योगो मतो नियोग इति । ज्ञेयां सभेद-लक्षण-सोदाहरणोऽयोग इव 11४९॥ Jan Education Internat For Personal and Private Use Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy