________________
विशेषा
बृहद्वत्तिः ।
॥६२४॥
HON
अथ गोदाहरणम्अन्नं पुट्ठो अनी साहइ सो गुरू न बहिरु व्व । न य सीसो जो अन्नं सुणेइ परिभासए अन्नं ॥ १४४३ ॥
बधिरकथानकं प्रागुक्तमेव । गाथाक्षरार्थस्तु सुगमः । अथवा, बधिरश्चासौ गोदोहश्चेति कर्मधारयो न क्रियते, किन्तु बधिरश्च गोदोहश्चेति द्वन्द्वः । ततो गोदोहो ग्रामेयकः, तत्कथानकं तु भिन्नमेवेह प्रागुक्तं द्रष्टव्यम् । उपनयस्तु स्वयमभ्यूट:-यो ग्रामेयकवद् यावन्मात्रमुक्तस्तावन्मात्रमेव स्वयं द्रव्य-क्षेत्र-कालाद्यौचित्यविरहितो वक्ति, स शिष्यत्वेऽप्ययोग्यः, गुरुत्वं तु रेणैव तस्येति ॥१४४३।।
अथ टङ्कणकव्यवहारदृष्टान्तभाष्यम्अक्खेव-निण्णय-पसंगदाणगहणाणुवत्तिणो दो वि । जोग्गा सीसायरिया टंकण-वणिओवमा समए ॥१४४४॥ अहवा गुरुविणय-सुयप्पयाणभण्डविणिओगओ दो वि। निजरलाभयसहिया टंकण-वणिओवमा जोग्गा ॥१४४५॥
इहोत्तरापथे म्लेच्छदेशे कचिद् टङ्कणाभिधाना म्लेच्छाः । ते च सुवर्णसट्टेन दक्षिणापथायातानि क्रयाणकानि गृह्णन्ति, परं वाणिज्यकारकास्तद्भाषां न जानन्ति, तेऽपीतरभाषां नावगच्छन्ति । ततश्च कनकस्य क्रयाणकानां च तावत् पुञ्जः क्रियते, यावदुभयपक्षस्यापीच्छापरिपूर्तिः, यावच्चैकस्यापि पक्षस्येच्छा न पूर्यते, तावत् कनकपुञ्जात् क्रयाणकपुञ्जाच्च हस्तं नापसारयन्ति, इच्छापरिपूतौ तु तमपसारयन्ति । एवं तेषां परस्परमीप्सितपतीप्सितो व्यवहारः । अथोपनयगाथाद्वयं व्याख्यायते, तद्यथा- टङ्कणाश्च वणिजश्च तेषामुपमैवं समये वर्णिता यथते टङ्कण-वणिजः परस्परमीप्सित-प्रतीप्सितव्यवहारेण व्यवहरन्ति, एवमाक्षेप-निर्णय-प्रसङ्गदान-ग्रहणानुवर्तिनो द्वयेऽपि शिष्या आचार्याश्चानुयोगयोग्या भवन्ति । इदमुक्तं भवति- यथा टङ्कणा वणिजश्च परस्परेच्छापरिपूर्ति यावत् सुवर्णस्य क्रयाणकस्य च पुञ्जान् करोति, एवं शिष्योऽपि तावदाक्षेपं पूर्वपक्षं करोति यावत् मूत्रार्थमवबुध्यते, न पुनर्भय-लजा-ऽहङ्कारादिभिरेवमेवानवगतेनाग्रतो याति, गुरुरपि तावद् निर्णयं प्रयच्छति यावच्छिष्यः सूत्रार्थमवगच्छति, प्रासङ्गिकं च तावद् गुरुः कथयति यावन्मानं शिष्योऽवधारयति । शिष्योऽपि यथाशक्ति तत् सर्वं गृह्णातीति । एवं दान-ग्रहणानुवर्तिनो द्वयेऽपि शिष्या-ऽऽचार्या योग्याः। तत्र
. अन्यत् पृष्टोऽन्यद् यः कथयति स गुरुर्न बधिर इव । न च शिष्यो योऽन्यत् शृणोति परिभाषतेऽन्यत् ॥१४४३॥ २ आक्षेप निर्णय-प्रसङ्गदान-ग्रहणानुवर्तिनी द्वावपि । योग्यौ शिष्या-ऽऽचायौं टङ्कण वणिगुपमी समये ॥ १४४४ ॥ अथवा गुरुविनय-श्रुतप्रदानभाण्डविनियोगतो द्वावपि । निर्जरालाभसहितौ टङ्कण-वणिगुपमी योग्यौ ॥ १४४५ ॥
NrESTE
॥६२४॥
in Education Internatio
Forsonal and Private Use Only
www.jainelbrary.org