SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६२३॥ Jain Educationa internat मञ्जनार्थं प्रविष्टा । ततश्च जीर्णश्रेष्ठदुहिता झगित्येव जलाद् निर्गत्य नवश्रेष्ठिदुहितृसत्कान्याभरणानि गृहीत्वा चलिता । इतरया तु जलमध्यगततयाऽप्युच्चैः स्वरेण निषिद्धा । ततश्च ' का त्वम् ?, कानि च तानि त्वदीयाभरणानि ?, मया होतान्यात्मीयान्येव गृहीतानि ' इत्यादि जल्पन्ती गाढमाक्रोशन्ती च सा गृहं गता । कथितं च निजमाता- पित्रोः । अनुमतं च तत् ताभ्याम् । भणिताऽसौ तूष्णीं विधाय तिष्ठत्वम् । तत इतरयापि निजपित्रोस्तत् कथितम् । याचितानि च ताभ्यां तान्याभरणानि । न समर्पयन्ति चेतराणि । ततो राजकुलव्यवहारो जातः । कारणिकैश्च साक्षी पृष्टः । न च कोऽप्यसौ संजातः । ततस्ते द्वे अपि दारिके आकार्य जीर्णश्रेष्ठदुहिता प्रोक्ता - यदि त्वदीयान्याभरणानि, तर्हि झगित्येवामून्यस्माकमेव पश्यतां परिधाय दर्शय । यावच्चैषा तानि परिधातुमारब्धा, तावदनभ्यासादन्यस्थानोचितमाभरणमन्यत्र नियोजयति । यदपि किञ्चित् स्थाने नियुङ्क्ते तदप्यश्लिष्टमेवाभाति, क्षुभितत्वेन च न किञ्चिदसौ जानाति । ततो नवश्रेष्ठिदुहिता तैरुक्ता । तया च स्वभ्यस्ततया स्थानौचित्येन सर्वाण्यप्याभरणानि झगित्येव परिहितानि श्लिष्टानि चातीव शोभन्ते । ततस्तैः पुनरपि सा मोक्ता - झगित्येव मुञ्च तानि । तया च क्रमेणावतार्य तथैव मुक्तानि । ततो ज्ञातः कारणिकैः सद्भावः । दण्डितश्च शरीरनिग्रहेण राज्ञा जीर्णश्रेष्ठी । तद्दुहिता चाऽनर्थभाजनं संजाता । एवं जीर्णष्ठिदुहितेवाभरणानामस्थानेऽर्थानां नियोक्ता न गुरुः- गुरुपदयोग्योऽसौ न भवतीत्यर्थः । ऐहिकामुष्मिकानां निःसंख्यानर्थानां भाजनमसौ संपयते । विधिभणिते च गुरुणा यथावत् प्ररूपिते चाज्ञानादिना विपरीतयोजकः शिष्योऽपि न नैव श्रवणयोग्यः, नापि कल्याणभागित्यर्थः । स्वस्थाने त्वर्थानां नियोक्ता, ईश्वरदुहितेव स्वभूषणानां गुरुर्योग्यो भवति । शिष्योऽपि गुरुभिर्यथोपदिष्टं तथैव नियोजयन् श्रवणयोग्यः कल्याणभाक् च भवतीति ।। १४४० ।। १४४१ ।। श्रावकोदाहरणभाष्यम् – 'चिरपरिचियं पि न सरइ सुत्तत्थं सावओ सभज्जं व । जो न स जोग्गो सीसो गुरुत्तणं तस्स दूरेणं ||१४४२॥ इह कथानकं 'सागभज्जा' इत्यादौ कथितमेव । ततश्च यथा चिरपरिचितामपि स्वभार्थी परकलत्रबुद्ध्या भुञ्जानो न स्मरति, एवं चिरपरिचितमपि सूत्रार्थ यः शून्यहृदयतया न स्मरति, स शिष्यो न योग्यः शिष्यत्वस्यापि, गुरुत्वं तु तस्य दूरेणैवेत्यर्थः । १४४२ ॥ १ चिरपरिचितमपि न स्मरति सूत्रार्थं श्रावकः स्वभार्यामिव । यो न स योग्यः शिष्यो गुरुत्वं तस्य दूरेण ॥। १४४२ ॥ २ गाथा १४१२ । For Personal and Private Use Only बृहद्वृत्तिः । | ॥ ६२३|| www.janelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy