________________
बृहद्वत्तिः ।
विशेषा
॥६२२॥
SCRIPGolorle
'कंथत्तणेण तीसे सद्दो सुव्बइ न हरिसभाए वि । कंथीकरणवइयरो विन्नाओ केसवेण तओ ॥ २२ ॥ माराविओ य सो भेरिरक्खओ, तेण अट्ठमं काउं । आराहिओ स देवो अन्नं भेरिं च सो देइ ॥ २३ ॥
अन्नो य केसवेण कओ तहिं मेरिपालओ सो य । रक्खइ तं जत्तेणं लहेइ लाभं च तो हरिणो ॥ २४ ॥"
अथ गाथाक्षरार्थः कथ्यते- स शिष्योऽनुयोगश्रवणस्य न योग्यः । यः, किम् ?, इत्याह- यः मूत्रम् , अर्थ वा चन्दनकन्थावत् परमतादिभिर्मिश्रयति । गलितं वा विस्मृतं शिक्षितमानेन शिक्षितत्वाहङ्कारेण परमतादिभिर्मिश्रयित्वा संपूर्ण करोति । इदमुक्तं भवति- यथा भेरीपालकेन गोशीर्ष श्रीखण्डभेरी इतरचन्दनखण्डैमिश्रयित्वा कन्था कृता, एवं यः शिष्यः सूत्रमर्थं वा परमतेन, आदिशब्देन स्वकीयेनैव ग्रन्थान्तरेण मिश्रयित्वा कन्धीकरोति, अथवा, विस्मृतं मूत्रमर्थ वा 'सुशिक्षितः स्वयमेवाहम् , नान्यं कश्चित् कदाचित् किमपि पृच्छामि' इत्यहङ्कारेण परमतादिभिरपि मिश्रयित्वा संपूर्ण विदधाति, सोऽनुयोगश्रवणस्य न योग्य इति । एवं कन्थीकृतमूत्रार्थों गुरुरप्यनुयोगभाषणस्य न योग्यः, किन्त्वविनाशितमूत्रार्थाः शिष्या-ऽऽचार्या अनुयोगस्य योग्या विनिर्दिष्टा इति ॥ १४३८ ॥ १४३९ ।।
अथ चेटीदृष्टान्तो विवियतेअत्थाणत्थनिउत्ताभरणाणं जिण्णसे द्विधूय व्व । न गुरू विहिभणिए वा विवरीयनिओयओसीसो ॥ १४४०॥ सत्थाणत्थनिउत्ता ईसरधूया सभूसणाणं व । होइ गुरू सीसोऽवि य विणिओएंतो जहाभणियं ॥ १४४१ ॥
भावार्थः कथानकेनोच्यते- वसन्तपुरे नगरेऽग्रेतनः श्रेष्ठी राज्ञा पदात् स्फटितोऽन्यो नवश्रेष्ठी विहितः । तथापि जीर्णश्रेष्ठिदुहितुर्नवश्रेष्ठिदुहित्रा सह कथमपि महती प्रीतिः संजाता । परं तथापि जीर्णश्रेष्ठिपुत्रिका हृदये कालुष्यं न मुश्चति- 'वयमेतैः पदात् परिभ्रंशिताः' इति । अन्यदा च ते द्वे अपि जलाशये कचिद् गते । ततश्चाभरणानि तदे मुक्त्वा नवश्रेष्ठिदुहिता जीर्णश्रेष्ठिपुत्रिकया सहैव
१ कन्धात्वेन तस्याः शब्दः श्रूयते न हरिसभायामपि । कन्धीकरणव्यतिकरी विज्ञातः केशवेन ततः ॥ २२ ॥ मारितश्च स भेरिरक्षकः, तेनाष्टमं कृत्वा । आराधितः स देवोऽन्यां भेरी च स ददाति ॥ २३ ॥
अन्यश्च केशवेन कृतस्तत्र भेरिपालकः स च । रक्षति तां यत्नेन लभते लाभं च सतो हरेः ॥ २४ ॥ २ क.ग. 'नभेरीक' । ३ क.ग. 'श्रीमण्डभे'। ५ अस्थानानियोक्ताभरणानां जीर्णश्रेष्ठिदुहितेव । न गुरुर्विधिभणिते वा विपरीतनियोजकः शिष्यः ॥ १४४० ॥
अस्वस्थानानियोक्ता ईश्वरदुहिता स्वभूषणानामिव । भवति गुरुः शिष्योऽपि विनियोजयन् पधाभाणितम् ॥ १४४१ ।।
६२२॥