________________
बृहद्वत्तिः ।
FOR
दानं च ग्रहणं च दान-ग्रहणे, प्रसङ्गस्य प्रसङ्गागतस्य दान ग्रहणे प्रसङ्गदान ग्रहणे; आक्षेपश्च निर्णयश्च प्रसङ्गदान-ग्रहणे च तानि तथेति विशेषा.
समासः, तदनुवर्तनशीला द्वयेऽपि शिष्या-ऽऽचार्या योग्या भवन्ति ।
प्रकारान्तरेणापि टङ्कण-वणिगुपैमानं भावयति- अहवेत्यादि गाथा । अथवा, शिष्येणौचित्यानतिक्रमात् कर्तव्यः सर्वोऽपि गुरु॥६२५॥ विनयः, गुरुणापि शिष्यौचित्येन कर्तव्यं सर्वमपि श्रुतपदानम् । गुरुविनयश्च श्रुतप्रदानं च, ते एव भाण्डे ग्राह्य-देयक्रयाणके तयोर्वि
नियोगो विनिमयस्तस्माद् गुरुविनय-श्रुतप्रदानभाण्डविनियोगाद् द्वयेऽपि शिष्या-ऽऽचार्याः कर्मनिर्जरालाभसहिताष्टकणवणिगुपमा अनु.
योगस्य योग्या भवन्ति । विपर्यये तु विपर्यय इति । तदेवं गोणी चंदण' इत्यादिना योग्या अयोग्याश्चोक्ताः शिष्या-ऽऽचाBाः ।। १४४४ ॥ १४४५॥
इदानीं शिष्यस्य विशेपत एव योग्या-योग्यत्वमभिधित्सुः प्रस्तावनामाह
अत्थी स एव य गुरू होइ जओ तो विसेसओ सीसो । जोग्गोऽजोग्गो भन्नइ तत्थाजोग्गो इमो होइ ॥१४४६॥
य इदानीं श्रुतस्यार्थ शृणोति स एव शिष्यः कालान्तरेणार्थी अर्थयुक्तोऽवगतमूत्रा-ऽर्थः सन् यस्माद् गुरुर्भवति नान्यः, तस्माद् योग्योऽयोग्यश्च विशेषतः शिष्यो भण्यते । तत्रायोग्यस्तावदयं वक्ष्यमाणो भवति ।। इति द्वादशगाथार्थः ॥ १४४६ ॥
कैस्स न होही देसो अणब्भुवगओ य निरुवगारी य । अप्पच्छंदमईओ पत्थियओ गंतुकामो य ॥१४४७॥
कस्य गुरोर्न भविष्यति द्वेष्योऽप्रीतिकरः शिष्यः, अपितु भविष्यत्येव । किं सर्व एव ?, न, इत्याह- अनभ्युपगतः श्रुतसंपदाऽनुपसंपन्नोऽनिवेदितात्मेत्यर्थः । अनुपसंपन्नत्वेऽपि तथा निरुपकारी गुरूणामनुपकारकः सर्वथा गुरुकृत्येष्वप्रवर्तक इत्यर्थः । तत्राप्यात्मच्छन्दमतिः स्वाभियं कार्यकारीत्यर्थः। तथा, प्रस्थितो यो योऽन्यः कोऽपि शिष्यो जिगमिषुः, तस्य तस्य द्वितीयः । तथा, गन्तुकामश्च सदैव गन्तुमना य आस्ते, वक्ति च- 'कोऽस्य गुरोः संनिधानेऽवतिष्ठते ?, समर्प्यतामेतत् श्रुतस्कन्धादि, ततो यास्यामि' इत्येवंचित्त एव सदैवास्ते । तदेवंभूतः शिष्योऽयोग्य एवं श्रवणस्येति भावः ॥ इति नियुक्तिगाथार्थः ।। १४४७ ।। अनभ्युपगतादिस्वरूपं भाष्यकारोऽप्याह
१ घ.ज. 'पमा भा'। २ गाथा १४३४ । ३ क.ख.ग.घ. 'दनेत्या' । ४ अर्थी स एव च गुरुर्भवति यतस्ततो विशेषतः शिष्यः । योग्योऽयोग्यो भण्यते समायोग्योऽयं भवति ॥ १४४६ ।। . ५ कस्य न भविष्यति द्वेष्योऽनभ्युपगतश्च निरुपकारी च । आत्मच्छन्दमतिकः प्रस्थितको गन्तुकामश्च ॥ १४४७ ॥ ६ घ.ज. 'प्रायका'।
4॥६२५॥
an Education Intemato
Foc Personal and Private Use Only
www.janelbrary.org