________________
विशेषा ०
॥६२६॥
Jain Education International
भैन्नर्इ अणब्भुवगओऽणुत्रसंपन्नो सुउवसंपदया गुरुणो करणिजाई अकुव्त्रमाणो निरुवगारी ||१४४८॥ अप्पच्छंदमईओ सच्छंदं कुणइ सव्वकज्जाई । पत्थियओ संपत्थियबिइज्जओ निच्चगमिउ व्व ॥ १४४९ ॥ गंतुमणो जो जंपर नवरं समप्पर इमो सुयक्खंधो। पढिउं सोउं च तओ गच्छं को अत्थए एत्थ ? ॥ १४५० ॥ तिस्रोऽपि गतार्थाः । नवरं 'निच्चगमिड व्व त्ति' यो यः प्रस्थितस्तत्तद्वितीयः प्रस्थित उच्यते । क इव १, नित्यगामीव पथिक इवेत्यर्थः ।। १४४८ ।। १४४९ ।। १४५० ।।
बृहद्वृत्तिः
अथ योग्यशिष्यगुणान् दर्शयन्नाह -
"विणओणएहिं पंजलियडेहिं छंदमणुयत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ || १४५१ || विनयो वन्दनादिलक्षणस्तेनावनता विनयावनता स्तैरित्थंभूतैः सद्भिः, तथा, पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जलयस्तैः, तथा, छन्दो गुर्वभिप्रायस्तमिङ्गिताकारादिना विज्ञाय तदध्यवसितश्रद्धान-समर्थन करण-कारणद्वारेणानुवर्तमानैराराधितो गुरुजनः श्रुतं सूत्राऽर्थोभयरूपं बहुविधमनेकप्रकारं लघु शीघ्रं ददाति प्रयच्छति ॥ इति निर्बुक्तिगाथार्थः ॥ १४५१ ॥
भाष्यम् –
"विणओणओऽभिवंदइ पढए पुच्छए पडिच्छईं वा णं । पंजलियडोऽभिमुहो कथंजली पुच्छणाईसु ॥१४५२॥ सद्दहइ समत्थेइ य कुणइ कराइ गुरुजणाभिमयं । छंदमणुयत्तमाणोस गुरुजणाराहणं कुणइ ॥ १४५३ ॥ उक्तार्थे || १४५२ ।। १४५३ ।।
१ भण्यतेऽनभ्युपगतोऽनुपसंपन्नः श्रुतोपसंपदा । गुरोः करणीयान्यकुर्वन् निरुपकारी || १४४८ ॥ आत्मच्छन्दमतिकः स्वच्छन्दं करोति सर्वकार्याणि । प्रस्थितकः संप्रस्थितद्वितीयको नित्यगामी || १४४९ ॥ गन्तुमना यो जल्पति नवरं समप्यतामयं श्रुतस्कन्धः । पठित्वा श्रुत्वा च ततो गमिष्यामि कोऽर्थ्यतेऽत्र ? ॥ १४५० ॥ २ विनयावनतैः कृतप्राञ्जलिभिश्छन्दमनुवर्तमानैः । आराधितो गुरुजनः श्रुतं बहुविधं लघु ददाति ॥ १४५१ ॥ ३ विनयावनतोऽभिवन्दते पठति पृच्छति प्रतीच्छति वा । कृतप्रान्जलिरभिमुखः कृताञ्जलिः पृच्छादिषु ॥ १४५२ ॥ श्रद्धत्ते समर्थयते च करोति कारयति गुरुजनाभिमतम् । छन्दमनुवर्तमानः स गुरुजनाराधनां करोति ॥ १४५३ ॥
For Personal and Private Use Only
४.ग. 'इ ठाणं' ।
||६२६ ॥
ww.jainelitary.ing