________________
विशेषा०
॥६९४॥
Jain Education Internat
यस्मादनिष्टभोगभाजो बहुतरा भूयांसः - अशुभकर्मविपाकजनितदुःखभाज एव प्राणिनः प्रचुरा इहोपलभ्यन्ते, शुभकर्मविपाकनिबन्धनसुखानुभवितारस्तु स्वल्पा एवेति भावः । तेन तस्मात् कारणात् सौम्य ! प्रतिपद्यस्त्र शुभाशुभा वा सर्वाऽपि क्रिया, अदृष्टं शुभाशुभं कर्मरूपमैकान्तिकं फलं यस्याः साऽदृष्टैकान्तिकफलेत्युत्तरगाथायां संबन्धः । इदमुक्तं भवति येन दुःखिनोऽत्र बहवः प्राणिनो दृश्यन्ते सुखिनस्तु स्वल्पाः तेन ज्ञायते - कृषि-वाणिज्य हिंसादिक्रियानिबन्धनाशुभकर्मरूपादृष्टफलविपाको दुःखिनाम्, इतरेषां तु दानादिक्रिया हेतुकशुभकर्मरूपादृष्टफलविपाक इति । व्यत्ययः कस्माद् न भवति ? इति चेत् । उच्यते- अशुभक्रियारम्भि णामेव बहुत्वात् शुभक्रियानुष्ठातृणामेव च स्वल्पत्वादिति ।
अत्राह - नन्वशुभक्रियारम्भकाणामपि यद्यदृष्टफलं भवति, तत् किमिति दानादिक्रियारम्भक इव तदारम्भकोsपि कश्चित् तदाशंसां कुर्वाणो न दृश्यते ? इत्याह- 'जं च नेहेत्यादि' यस्माच नेहाऽदृष्टमनिष्टमशुभं फलं यस्याः साऽदृष्टानिष्टफला तामित्यंभूत क्रियां मतिपूर्वमाशंसाबुद्धिपूर्विकां कोऽपि समारभते, इत्यतो न कोऽपि तदाशंसां कुर्वाणो दृश्यते । तस्मात् सर्वापि क्रियाsहकान्तिकफलेति प्रतिपद्यखेति ।
पुनरपि कथंभूताः इत्याह- 'दिट्ठाणेगतफल त्ति' दृष्टं धान्य- द्रविणलाभादिकमनैकान्तिकमवश्यंभावि फलं यस्याः कृषिवाणिज्यादिक्रियायाः सा दृष्टानैकान्तिकफला सर्वापि क्रिया । इदमुक्तं भवति - सर्वस्या अपि क्रियाया अदृष्टं फलं तावदेकान्तेनैव भवति, यत्तु दृष्टफलं तदनैकान्तिकमेव- कस्याश्चित् तद् भवति कस्याविद् नेत्यर्थः । एतच्च दृष्टफलस्यानैकान्तिकत्वमदृष्टानुभावेनैवेति प्रतिपत्तव्यम् । न हि समानसाधनारब्धतुल्यक्रियाणां द्वयोर्वहूनां वैकस्य दृष्टफलविघातः, अन्यस्य तु न इत्येतददृष्टहेतुमन्तरेणोपपद्यत इति भावः । एतच्चैव प्रागुक्तमेवेति ।। १६२२ ।। १६२३ ।।
अथवा, किमिह प्रयासेन ? प्रागेव साधितं कर्म । कया युक्त्या ? इत्याह
हवा फलाउ कम्मं कजत्तणओ पसाहियं पुण्यं । परमाणवो घडस्स व किरियाण तयं फलं भिन्नं ॥ १६२४||
अथवा,
" जो तुलसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व्व, हेऊ य सो कम्मं ॥ १ ॥'
१ घ.ज. 'ष्टं द्रविणधान्यला' । २ अथवा फलात् कर्म कार्यत्वतः प्रसाधितं पूर्वम् । परमाणवो घटस्येव क्रियाणां तत् फलं भिन्नम् ।। १६२४ ।। ३ गाथा १६१३ |
For Personal and Private Use Only
बृहद्वृत्तिः ।
||६९४ ||
www.jainveltaaryair