________________
विशेषा०
॥६९३||
वत्राशंसाभावेऽपि स्वकार्य जनयत्येव । अविकलकारणभूताश्च कृषि-हिंसादयोऽधर्मजनने । अतस्तत्कर्तृगताशंसा तत्र कोपयुज्यते । न च दानादिक्रियायामपि विवेकिनः फलाशंसां कुर्वते, तथाप्यविकलकारणतया विशिष्टतरमेव ता धर्मफलं जनयन्ति । तस्मात् शुभाया अशुभायाश्च सर्वस्या अपि क्रियाया अदृष्टं शुभा-ऽशुभं फलमस्त्येवेति प्रतिपत्तव्यम् , अनन्तसंसारिजीवसत्तान्यथानुपपत्तेरिति स्थितम् ।। १६२० ॥
एतदेव प्रतिपादयितुमाह
इहरा अदिहरहिया सव्वे मुच्चेज ते अपयत्तेणं । अदिट्ठारंभो चेव केसबहुलो भविजाहि ॥ १६२१ ॥
इतरथा यदि कृषि-हिंसाधशुभक्रियाणामदृष्टं फलं नाभ्युपगम्येत, तदा ते तत्कर्तारोऽदृष्टफलाभावाद् मरणानन्तरमेव सर्वेऽप्ययत्नेन मुच्चरन्- संसारकारणाभावाद् मुक्तिं गच्छेयुः, ततश्च प्रायः शून्य एव संसार: स्यादित्यर्थः । यश्चादृष्टारम्भोऽदृष्टफलानां दानादिक्रियाणां समारम्भः स एव क्लेशबहुलः संसारपरिभ्रमणकारणतया दुरन्तः स्यात् । तथाहि- ते दानादिक्रियानुष्ठातारस्तदनुष्ठानेनादृष्टफलानुबन्धं विदध्युः, ततो जन्मान्तरे तद्विपाकमनुभवन्तस्तत्प्रेरिताः पुनरपि दानादिक्रियास्वेव प्रवर्तेरन् , ततो भूयस्तफलसंचयात् तद्विपाकानुभूतिः, पुनरपि दानादिक्रियारम्भः, इत्येवमनन्तसंततिमयः संसारस्तेषां भवेत् ।
तत्रैतत् स्यात् , इत्थमप्यस्तु, कात्र किलास्माकं बाधा ? । अत्रोच्यते- इयमत्र गरीयसी भवतां बाधा, यत् कृषि-हिंसाद्यशुभक्रियानुष्ठातृणामदृष्टसंचयाभावे सर्वेषां मुक्तिगमन एकोऽपि तक्रियानुष्ठाता संसारे कापि नोपलभ्येत, अशुभतत्फलविपाकानुभविता चैकोऽपि कचिदपि न दृश्येत, दानादिशुभक्रियानुष्ठातारः शुभतत्फलविपाकानुभवितार एव च केवलाः सर्वत्रोपलभ्येरन् , न चैवं दृश्यते ॥ १६२१ ॥
तस्मात् किम् ? इत्याह
जमणिट्ठभोगभाजो बहुतरगा जं च नेहमइपुव्वं । अहिट्ठाणिट्ठफलं कोइ विकिरियं समारभइ ॥१६२२॥ तेण पडिवज, किरिया अदिद्रुगंतियप्फला सव्वा । दिट्ठाणेगंतफला सा वि अदिट्ठाणुभावेण ॥१६२३॥
, इतरथाऽदष्टरहिताः सर्वे मुच्येरस्ते प्रयत्नेन । अदृष्टारम्भ एव क्लेशबहुलो भवेत् ॥ १६२१॥ २ यदनिष्टभोगभाजो बहुतरका यच्च नेह मतिपूर्वाम् । अदृष्टानिष्टफलां कश्चिदपि क्रिया समारभते ॥ १५२२ ॥
तेन प्रतिपयस्व क्रियाष्टकान्तिकफला सर्वा । इष्टानकान्तिकफला सायरष्टानुभावेन ॥ १६२३ ।।
ह
क
॥६९३
हमकरस्कार
Jan Education Intera
Foc Pesonal and Private Use Only
www.janelbrary.org