________________
विशेषा.
॥६९२॥
दृष्टफलमस्तु, किमदृष्टफलकल्पनेन ?। किंबहुना ?, सा क्रिया सर्वापि तन्मात्रफलैब दृष्टमात्रफलैव युज्यते, नादृष्टफला, यथा दृष्टमांसमात्रफला पशुविनाशक्रिया; न हि पशुविशसनक्रियामदृष्टाधर्मफलार्थ कोऽप्यारभते, किन्तु मांसभक्षणार्थम् । अतस्तन्मात्रफलैव सा, तावतैवावसितप्रयोजनत्वात् । एवं दानादिक्रियाया अपि दृष्ठमात्रमेव श्लाघादिकं किश्चित् फलम् , नान्यदिति ॥ १६१८ ।।
अस्यैवार्थस्य समर्थनार्थ कारणान्तरमाह
पायं व जीवलोगो वट्टइ दिट्ठफलासु किरियासु । अदिट्ठफलासुं पुण वट्टइ नासंखभागो वि ॥ १६१९ ॥ . लोकोऽपि च प्रायेण दृष्टमात्रफलाखेव कृषि-वाणिज्यादिक्रियासु प्रवर्तते, अदृष्टफलासु पुनर्दानादिक्रियासु तदसंख्येयभागोऽपि न वर्तते- कतिपयमात्र एव लोकस्तासु प्रवर्तते, न बहुरित्यर्थः । ततश्च हिंसादीनामशुभक्रियाणामदृष्टफलाभावाच्छुभक्रियाणामपि दानादीनामदृष्टफलाभावो भविष्यति । इति पराभिप्राय इति ।। १६१९ ।।
भगवानाह
सोम्म ! जउ च्चिय जीवा पायं दिट्ठप्फलासु वटुंति । अदिट्ठफलाओ वि य ताओ पडिवज तेणेव ॥१६२०॥
सौम्य ! इत्यनिभूतेरामन्त्रणम् , यत एव प्राणिनः प्रायेण कृषि-वाणिज्य-हिंसादिकास्खेव दृष्टफलास्व शुभक्रियासु प्रवर्तन्ते, अदृष्टफलासु पुनर्दानादिकासु शुभक्रियासु स्वल्पा एवं प्रवर्तन्ते, तेनैव तस्मादेव कारणात् ता अपि कृषि हिंसादिका दृष्टफलाः क्रिया अदृष्टफला अपि प्रतिपद्यस्वाभ्युपगच्छ । इदमुक्तं भवति- यद्यपि कृषि-हिंसादिक्रियाकर्तारो दृष्टफलमात्रार्थमेव ताः समारभन्ते नाधर्मार्थम् , तथापि तेऽधर्मलक्षणं पापरूपमदृष्टफलमश्नुवत एव, अनन्तसंसारिजीवान्यथानुपपत्तेः । ते हि कृषि-हिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बद्धाऽनन्तं संसारं परिभ्रमन्तोऽनन्ता इह तिष्ठन्ति, दानादिक्रियानुष्ठातारस्तु स्वल्पा अदृष्टं धर्मरूपं फलमासाद्य क्रमेण मुच्यन्त इति ।
___ ननु दानादिक्रियानुष्ठातृभिर्यददृष्टं धर्मलक्षणं फलमाशंसितं तत् तेषां भवतु, यैस्तु कृषि-हिंसादिक्रियाकर्तृभिरदृष्टमधर्मरूपं फलं नाशंसितं तत् तेषां कथं भवति ? इति चेत् । तदयुक्तम् , न ह्यविकलं कारणं स्वकार्य जनयत् कस्याप्याशंसामपेक्षते, किन्त्वविकलकारणतया स्वकार्य जनयत्येव । वप्तुरज्ञातमपि हि कोद्रवादिवीजं कचिद् भूप्रदेशे पतितं जलादिसामग्रीसद्भावेऽविकलकारणतां प्राप्त १क.ग. "विनाशन' । २ प्रायो वा जीवलोको वर्तते दृष्टफलासु क्रियासु । अदृष्टफलासु पुनर्वर्तते नासंख्यभागोऽपि ॥ १६.९॥
। सौम्य ! यत एवं जीवाः प्रायो दृष्टफलायु वर्तन्ते । अरष्टफला अपि च ताः प्रतिपय स्ख तेनैव ॥ १६२० ॥
॥६९२॥
Jan Education
Internation
Foc Pesonal and Private Use Only
www.janelbrary.org