SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥ ६९५ ॥ Jain Education Internat इत्यस्यां गाथायां प्रागस्माभिः कर्म प्रसाधितमेव । कुतः १ इत्याह- फलात् तुल्यसाधनानां यः फले विशेषस्तस्मादित्यर्थः । ततोऽपि फलविशेषात् कस्मात् प्रसाधितं कर्म ? इत्याह- कार्यत्वात् तस्य फलविशेषस्य यच्च कार्य तस्य कारणं भवत्येव यथा घटस्य परमाणवः, यच्चेह कारणं तत् कर्म । 'किरियाण तयं फलं भिन्नं ति' तदेव च कर्म सर्वासामपि क्रियाणामदृष्टं फलमित्येवमिहापि साध्यते । कथंभूतम् १ ताभ्यः क्रियाभ्यो भिन्नम् कर्मणः कार्यत्वात् क्रियाणां च कारणत्वात्, कार्यकारणयोश्च परस्परं | भेदादिति भावः ।। १५२४ ॥ अत्राक्षेप - परिहारौ प्राह आह नणु मुत्तमेवं मुत्तं चिय कज्जमुत्तिमत्ताओ। इह जह मुत्तत्तणओ घडस्स परमाणवो मुत्ता ॥ १६२५॥ आह प्रेरक :- ननु यदि कार्याणां शरीरादीनां दर्शनात् तत्कारणभूतं कर्म साध्यते, तर्हि कार्यस्य मूर्तस्वात् कर्मापि मूर्त प्राप्नोति । आचार्य उत्तरमाह - 'मुत्तं चियेत्यादि' यदस्माभिः प्रयत्नेन साधयितव्यम्, तद्भवतापि परसिद्धान्तानभिज्ञबालबुद्धितयाऽनिष्टापादनाभिप्रायेण साधितमेव, तथाहि वयमपि ब्रूमः- मूर्तमेव कर्म, तत्कार्यस्य शरीरादेर्मूर्तत्वात् इह यस्य यस्य कार्य मूर्त तस्य तस्य कारणमपि मूर्तम्, यथा घटस्य परमाणवः, यश्चामूर्त कार्य न तस्य कारणं मूर्त, यथा ज्ञानस्यात्मेति । समवायिकारणं चेहाधिक्रियते, न निमित्तकारणभूता रूपाऽऽलोकादय इति । आह- ननु सुख-दुःखादयोऽपि कर्मणः कार्यम्, अतस्तेषाममूर्तत्वात् कर्मणोमूर्तत्वमपि प्रामोति । न हि मूर्तादमूर्तप्रसवो युज्यते । न चैकस्य मूर्तत्वममूर्तत्वं च युक्तम्, विरुद्धत्वात् । अत्रोच्यते नन्वत एवात्र समवायिकारणमधिक्रियते, न निमित्तकारणम्, सुख-दुःखादीनां चात्मधर्मत्वादात्मैव समवायिकारणम्, कर्म पुनस्तेषामन्नपाना ऽहि विपादिवद् निमित्तकारणमेवेत्यदोष इति । १६२५ ।। कर्मणो मूर्तस्वसाधनाय हेत्वन्तराण्यप्याह तेह सुहसंवित्तीओ संबंधे वेयणुब्भवाओ य । बज्झबलाहाणाओ परिणामाओ य विष्णेयं ॥ १६२६ ॥ आहार इवानल इव घडु व्व नेहाइकयबलाहाणो । खीरमिवोदाहरणाई कम्मरूवित्तगमगाई || १६२७॥ १ आह ननु मूर्तमेवं मूर्तमेव कार्यमूर्तिमत्त्वात् । इह यथा मूर्तस्वतो घटस्य परमाणवो मूर्ताः ॥ १६२५ ॥ २ तथा सुखसंविसेः संबन्धे वेदनोजवाय बाावलाधानात् परिणामाच्च विज्ञेयम् ।। १६२६ ।। आहार इवानल इव घट इव नेहादिकृतबलाधानः । क्षीरमिवोदाहरणानि कर्मरूपित्वगमकानि ॥ १६२७ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।।६९५।। www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy