________________
विशेषा. ॥६९६॥
इह प्रथमगाथोपन्यस्तहेतुचतुष्टयस्य द्वितीयगाथायां यथासंख्यं चत्वारो दृष्टान्ता द्रष्टव्याः। तत्र मूर्त कर्म, तत्संबन्धे सुखादिसंवित्तेः, इह यत्संबन्धे सुखादि संवेद्यते तद् मूर्तं दृष्टम् , यथाऽशनाद्याहारः, यच्चामृत न तत्संबन्ध सुखादिसंविदस्ति, यथा5sकाशसंबन्धे, संवेद्यते च तत्संबन्धे सुखादि, तस्मात् मूर्तं कर्मेति । तथा, यत्संबन्धे वेदनोद्भवो भवति तद् मूर्ते दृष्टम् , यथाऽनलोऽग्निः, भवति च कर्मसंबन्धे वेदनोद्भवः, तस्मात् तद् मूर्तमिति । तथा, मूत कर्म, आत्मनो ज्ञानादीनां च तद्धर्माणां व्यतिरिक्तत्वे सति बाधेन सक्-चन्दना-ऽङ्गनादिना बलस्योपचयस्याधीयमानत्वात् , यथा स्नेहाद्याहितबलो घटः, इह यस्यानात्म-विज्ञानादेः सतो बाह्येन वस्तुना बलमाधीयते तद् मूर्तं दृष्टम् , यथा स्नेहादिनाऽऽधीयमानबलो घटः, आधीयते च बार्मिथ्यात्वादिहेतुभूतैर्वस्तुभिः कर्मण उपचयलक्षणं बलम् , तस्मात् तद् मूर्तमिति । तथा, मूर्त कर्म, आत्मादिव्यतिरिक्तत्वे सति परिणामित्वात् , क्षीरमिवेति । एवमादीनि हेतू-दाहरणानि कर्मणो रूपित्वगमकानीति ॥ १६२६ ॥१६२७ ।।
अत्र परिणामित्वासिद्धिमाशङ्कयोत्तरमाह
अह मयमसिहमेयं परिणामाउ त्ति सो वि कज्जाओ। सिद्धो परिणामो से दहिपरिणामादिव पयस्स ॥१६२८॥ _ अथ 'परिणामित्वात्' इत्यसिद्धोऽयं हेतुरिति मतं भवतः । एतदप्ययुक्तम् , यतः सोऽपि परिणामः सिद्धः कर्मणः, 'कज्जाउ ति' कर्मकार्यस्य शरीरादेः परिणामित्वदर्शनादित्यर्थः । इह यस्य कार्य परिणाम्युपलभ्यते तस्यात्मनोऽपि परिणामित्वं निश्चीयते, यथा दनस्तकादिभावेन परिणामात् पयसोऽपि परिणामित्वं विज्ञायत एवेति ॥ १६२८ ॥
यत् पूर्व सुख-दुःखादिवैचित्र्यदर्शनात् तद्धेतुभूतं कर्म साधितं, तत्र पुनरप्यामिभूतिराहअब्भादिविगाराणं जह वेचित्तं विणा वि कम्मेण । तह जइ संसारीणं हवेज को नाम तो दोसो ? ॥१६२९॥
आह-ननु यथाऽभ्रादिविकाराणामन्तरेणापि कर्म, वैचित्र्यं दृश्यते, तथा तेनैव प्रकारेण संसारिजीवस्कन्धानामपि सुखदुःखादिभावेन वैचित्र्यं यदि कर्म विनापि स्यात् , ततः को नाम दोषो भवेत् ?-न कोऽपीत्यर्थः ॥ १६२९ ।। भगवानाह--
क. ख. ग. 'बन्धि तस्मात् तत्संबन्धिसुखादिसंवेदनाद् मू। २ मध मतमसितमेतत् परिणामादिति सोऽपि कार्यात् । सिद्धः परिणामसस्य दधिपरिणामादिव पयसः ॥ १॥२८॥ ३ अभादिविकाराणां यथा वैचित्र्यं विनापि कर्मणा । तथा यदि संसारिणां भवेत् को नाम ततो दोषः ॥२९॥
ETRACelod
दि
Jan Education Internatio
For Personal and private Use Only
www.jannelbrary.org