SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कुमार ETSAMRAPraka विशेषा ॥६९७॥ कम्मम्मि व को भेओजह बज्झक्खंधचित्तया सिद्धा। तह कम्मपोग्गलाण वि विचित्तया जीवसहियाणं ॥१६३०॥ यद्यभ्रविकाराणां गन्धर्वनगरे-न्द्रधनुरादीनां गृह-देवकुल-प्राकार-तरु-कृष्ण-नील-रक्तादिभावेन वैचित्र्यमिष्यते सौम्य !, वाशब्दस्यापिशब्दार्थत्वात् , तर्हि कर्मण्यपि को भेदः को विशेषः, येन तत्र वैचित्र्यं नाभ्युपगम्यते ? । ननु हन्त ! यथा सकललोकप्रत्यक्षाणाममीषां गन्धर्वपुर-शककोदण्डादीनां बाह्यस्कन्धानां विचित्रता भवतोऽपि सिद्धा, तथा तेनैव प्रकारेणान्तराणामपि कर्मस्कन्धानां पुद्गलमयत्वे समानेऽपि जीवसहितत्वस्य विशेषवतो वैचित्र्यकारणसद्भावेऽपि सुख-दुःखादिजनकरूपतया विचित्रता किमिति नेष्यते ? । यदि ह्यभ्रादयो बाह्यपुद्गला नानारूपतया परिणमन्ति, तर्हि जीवैः परिगृहीताः सुतरां ते तथा परिणंस्यन्तीति भावः ॥ १६३०॥ एवदेव भावयति बैज्झाण चित्तया जइ पडिवन्ना कैम्मणो विसेसेण । जीवाणुगयस्स मया भत्तीण वैसिप्पिनत्थाणं ॥१६३१॥ यदि हि जीवापरिगृहीतानामपि बाह्यानामभ्रादिपुद्गलानां नानाकारपरिणतिरूपा चित्रता त्वया प्रतिपन्ना, तर्हि जीवानुगतानां कर्म-पुद्गलानां विशेषत एवास्माकं भवतश्च सा सम्मता भविष्यति, भक्तयो विच्छित्तयस्तासामिव "चित्रादिषु शिल्पिन्यस्तानाम् । अयमभिप्रायः-चित्रकरादिशिल्पिजीवपरिगृहीतानां चित्र-लेप्य-काष्ठकर्मानुगतपुद्गलानां या परिणामचित्रता सा विस्त्रसापरिणतेन्द्रधनुरादिपुद्गलपरिणामचित्रतायाः सकाशाद् विशिष्टेवेति प्रत्यक्षत एव दृश्यते । अतो जीवपरिगृहीतत्वेन कर्मपुद्गलानामपि सुख-दुःखादिवैचित्र्यजननरूपा विशिष्टतरा परिणामचित्रता कथं न स्यात् ? इति ।। १६३१ ।। अत्र परः माह--- तो जइ तणुमत्तं चिय हवेज का कम्मकप्पणा नाम ? । कम्म पि नणु तणु च्चिय सण्हयरमंतरा नवरं ॥१६३२॥ एवं मन्यते परः- यद्यभ्रादिविकाराणामिव कर्मपुद्गलानां विचित्रपरिणतिरभ्युपगम्यते । ततो बाह्यं सकलजनप्रत्यक्षं तनुमात्रमे. कर्मणि वा को भेदो यथा बायस्कन्धचित्रता सिद्धा । तवा कर्मपुद्गलानामपि विचित्रता जीवसहितानाम् ॥ १६३०॥ २ बाह्यानां चित्रता यदि प्रतिपन्ना कर्मणो विशेषेण । जीवानुगतस्य मता भक्तीनामिव शिल्पिन्यस्तानाम् ॥१६३१॥ ३ घ.ज.'कम्मुणो' । ४ क.ख. ग. झ.'व चित्तन' । ५ क. स्व. ग. 'चित्रन्य' । ६ ततो यदि तनुमात्रमेव भवेत् का कर्मकल्पना नाम ? । कर्मापि ननु तनुरेव सूक्ष्मतराभ्यन्तरा नवरम् ॥ १६३२ ॥ ॥६९७॥ Jan Education Internatio For and Private Use Only www.janeibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy