SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६९८ ॥ Jain Educationa Internati वेदं सुरूप- कुरूप सुख-दुःखादिभावैः स्वभावत एवाभ्रादिविकारवद् विचित्ररूपतया परिणमति, इत्येतदेवास्तु का नाम पुनस्तद्वैचित्र्यहेतुभूतस्यान्तर्गकल्पस्य कर्मणः परिकल्पना, स्वभावादेव सर्वस्यापि पुद्गलपरिणामवैचित्र्यस्य सिद्धत्वात् । इति । भगवानाह - 'कम्मं पीत्यादि । अयमभिप्रायः- यद्यभ्रादिविकाराणामित्र तनोर्वैचित्र्यमभ्युपगम्यते, तर्हि ननु कर्मापि तनुंरव, कार्मणशरीरमेवेत्यर्थः, केवलं श्लक्ष्णतरा, अतीन्द्रियत्वात्; अभ्यन्तरा च, जीवेन सहातिसंश्लिष्टत्वात् । ततश्च यथाऽभ्रादिविकारवद् बाह्यस्थूरतनोर्वैचित्र्यमभ्युपगम्यते, तथा कर्मतनोरपि तत्किं नाभ्युपगम्यते ? इति भावः ।। १६३२ ।। अथ प्रेर्यमाशङ्कय परिहरन्नाह hi ती विणा दोसो लाए सव्वहा विप्पमुकस्स । देहग्गहणाभावो तउ य संसारवोच्छिती ॥ १६३३ ॥ प्रेरकः प्राह - ननु बाह्याया: स्थूरतन्वा वैचित्र्यं प्रत्यक्षदृष्टत्वादेवाभ्रादिविकारवदभ्युपगच्छामः । अन्तरङ्गायास्तु कर्मरूपायाः सूक्ष्मतनोवैचित्र्यं कथमिच्छामः, तस्याः सर्वथाऽप्रत्यक्षत्वात् ? । अथ तदनभ्युपगमे दोषः कोऽप्यापतति, ततोऽर्थापत्तेरेव तद्विचित्रताSभ्युपगन्तव्या, तर्हि निवेद्यतां कस्तया विना दोषोऽनुषज्यते १ । आचार्यः प्राह- मरणकाले स्थूलया दृश्यमानतन्वा सर्वथा विप्रमुतस्य जन्तोर्भवान्तरगतस्थूलतनुग्रहणनिबन्धनभूतां सूक्ष्मकर्म तनुमन्तरेणाग्रेतन देहग्रहणाभावलक्षणो दोषः समापयते । न हि निष्कारमेव शरीरान्तरग्रहणं युज्यते । ततश्च देहान्तरग्रहणानुपपत्तेर्मरणानन्तरं सर्वस्याप्यशरीरत्वादयत्नेनैव संसारव्यवच्छित्तिः स्यात् १६३३ ततोऽपि च किं स्यात् ? इत्याह सेव्वविमोक्खाबत्ती निक्कारणउ व्व सव्वसंसारो । भवमुक्काणं व पुणो संसरणमओ अणासासो ॥ १६३४ ॥ ततः संसारव्यवच्छेदानन्तरं सर्वस्यापि जीवराशेर्मोक्षापत्तिर्भवेत् । अथाशरीराणामपि संसारपर्यटनम् तर्हि निष्कारण एव सर्वस्यापि संसारः स्यात्, भवमुक्तानां च सिद्धानामित्थं पुनरप्यकस्माद् निष्कारण एव संसारपातः स्यात् । तथैव च तत्र संसरणम् । ततश्च मोक्षेऽप्यनाश्वास इति ।। १६३४ ।। १ कस्तया विना दोषः स्थूलया सर्वथा विप्रमुक्तस्य । देहग्रहणाभावस्ततश्च संसारव्यवच्छित्तिः ॥ १६३३ ॥ २ सर्वविमोक्षापत्तिर्निष्कारणको वा सर्वसंसारः । भवमुक्तानां वा पुनः संसरणमतोऽनाश्वासः ॥ १६३४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ||६९८ || www.jainerary.sing
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy