SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥६९९॥ पुनः प्रकारान्तरेण प्रेर्यमाहमुत्तस्सामुत्तिमया जीवेण कहं हवेज संबंधो ? । सोम्म ! घडस्स व्व नभसा जह वा दव्वस्स किरियाए॥१६३५॥ ननु मृत कर्मेति प्राग भवद्भिः समर्थितम् । तस्य च मूर्तस्य कर्मणोऽमर्तेन जीवेन सह कथं संयोगलक्षणः समवायलक्षणो वा संबन्धः | स्यात् । अतः कर्मसिद्धावप्येतदपरमेव रन्ध्र पश्यामः। भगवानाह-सौम्य ! यथा मूर्तस्य घटस्यामूर्तेन नभसा संयोगलक्षणः संबन्धस्तथाऽत्रापि जीव-कर्मणोः । यथा वा द्रव्यस्याङ्गुल्यादेः क्रिययाऽऽकुश्चनादिकया सह समवायलक्षणः संबन्धः, तथाऽत्रापि जीव-कर्मणारयमिति ॥ १६३५॥ प्रकारान्तरेणापि जीव-कर्मणोः संबन्धसिद्धिमाह अहवा पच्चक्खं चिय जीवोवनिबंधणं जह सरीरं । चिट्ठइ कम्मयमेवं भवंतरे जीवसंजुत्तं ॥१६३६॥ अथवा, यथेदं बाह्यं स्थूलशरीरं जीवोपनिबन्धनं जीवेन सह संबद्धं प्रत्यक्षोपलभ्यमानमेव तिष्ठति सर्वत्र चेष्टते, एवं भवान्तरं गच्छता जीवेन सह संयुक्त कार्मणशरीरं प्रतिपद्यस्व । अथ ब्रूषे- धर्मा-ऽधर्मनिमित्तं जीवसंबद्धं बाह्यं शरीरं प्रवर्तते, तर्हि पृच्छामो भवन्तम्- तावपि धर्मा-ऽधमाँ मूतौं वा भवेताम् , अमूतौं वा । यदि मूर्ती, तर्हि तयोरप्यमूर्तेनात्मना सह कथं संबन्धः । अथ तयोस्तेन सहासौ कथमपि भवति, तर्हि कर्मणोऽपि तेन सार्धमयं कस्माद् न स्यात् ।। अथामूतौ धर्मा-ऽधर्मी, तर्हि बाह्यमूर्तस्थरशरीरेण सह तयोः संबन्धः कथं स्यात् , मूर्ता-ऽमूर्तयोर्भवदभिप्रायेण संबन्धायोगात् । न चासंबद्धयोस्तयोर्बाह्यशरीरचेष्टानिमित्तत्वमुपपद्यते, अतिप्रसङ्गात् । अथ मूर्तयोरपि तयोर्वाह्यशरीरेण मूर्तेण सहेष्यते संबन्धः, तर्हि जीव-कर्मणोस्तत्सद्भावे कः प्रद्वेषः ? इति ॥१६३६॥ अथापरावाक्षेप-परिहारौ पाहमुत्तेणामुत्तिमओ उवघाया-ऽणुग्गहा कहं होजा ?। जह विण्णाणाईणं मइरापाणोसहाईहिं ॥ १६३७ ॥ ॥६९९॥ , मूर्तस्यामूर्तिमता जीवन कथं भवेत् संबन्धः ? । सौम्य ! घटस्येव नभसा यथा वा अन्यस्य क्रियया ॥१६३५॥ २ अथवा प्रत्यक्षमेव जीवोपनिवन्धनं यथा शरीरम् । तिष्ठति कार्मणमेवं भवान्तरे जीवसंयुक्तम् ।। १६३६॥ ३ मूर्तेणामूर्तिमत उपघाता-ऽनुग्रही कथं भवेताम् ? । यथा विज्ञानादीनां मदिरापानी-पधादिभिः ॥ १६३.. Jan Education in tema Fonden
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy