________________
विशेषा ०
||७००॥
Jain Educationia Internation
ननु मूर्तेन कर्मणामूर्तिमतो जीवस्य कथमाहाद-परितापाद्यनुग्रहोपघातौ स्याताम् । न ह्यमूर्तस्य नभसो मूर्तेर्मलयजज्वज्वालादिभिस्तौ युज्यते इति भावः । अत्रोत्तरमाह- 'जह विष्णाणाईणमित्यादि' यथाऽमूर्तानामपि विज्ञान-विविदिषा- धृति-स्मृत्यादिजीवधर्माणां मूतैरपि मदिरापान हत्पूर - विष- पिपीलिकादिभिर्भक्षितैरुपघातः क्रियते, पयः-शर्करा - घृतपूर्णभेषजादिभिस्त्वनुग्रह इत्येवमिहापीति । एतच्च जीवस्यामूर्तत्वमभ्युपगम्योक्तम् ।। १६३७ ।।
यदिवा, अमूर्तोsपि सर्वथाऽसौ न भवतीति दर्शयन्नाह -
अहवा गतोऽयं संसारी सव्वहा अमुत्तोति । जमणाइकम्मसंतइपरिणामावन्नरूवो सो ॥ १६३८ ॥
अथवा, नायमेकान्तो यदुत - संसारी जीवः सर्वथाऽमूर्त इति । कुतः १ । यद् यस्मादनादिकर्मसन्ततिपरिणामापनं वचय:पिण्डन्यायेनानादिकर्म संतान परिणतिस्वरूपतां प्राप्तं रूपं यस्य स तथा । ततश्च मूर्तकर्मणः कथञ्चिदनन्यत्वाद् मृर्तोऽपि कथञ्चिज्जीवः । इति मूर्तेन कर्मणा भवत एव तस्यानुग्रहो-पघातौ, नभसस्त्वमूर्तस्वात्, अचेतनत्वाच्च तौ न भवत एवेति ।। १६३८ ।।
कथं पुनः कर्मणोऽनादि संतानः १ इत्याह
ताणोऽणाई उपरोप्परं हेउहे उभावाओ । देहस्स य कम्मस्स य गोयम ! बीयं- कुराणं व ॥ १६३९ ॥ अनादिः कर्मणः सन्तान इति प्रतिज्ञा । देह कर्मणोः परस्परं हेतुहेतुमद्भावादिति हेतुः । बीजा-ऽङ्कुरयोरिवेति दृष्टान्तः । यथा बीजेनाऽङ्कुरो जन्यते, अङ्कुरादपि क्रमेण वीजमुपजायते; एवं देहेन कर्म जन्यते, कर्मणा तु देह इत्येवं पुनः पुनरपि परस्परमनादिकालीनहेतुहेतुमद्भावादित्यर्थः । इह ययोरन्योऽन्यं हेतुहेतुमद्भावस्तयोरनादिः सन्तानः, यथा बीजाङ्कुर पितृपुत्रादीनाम्, तथा च देह- कर्मणोः, ततोऽनादिः कर्मसन्तान इति ।। १६३९ ॥
वेदोक्तद्वारेणापि कर्म साधयन्नाह -
कैम्मे चासइ गोयम ! जमग्गिहोत्ताइ सग्गकामस्स । वेयविहियं विहरणइ दाणाइफलं च लोयम्मि || १६४० ॥
१ अथवा नैकान्तोऽयं संसारी सर्वथाऽमूर्त इति । यदनादिकर्म सन्ततिपरिणामापन्नरूपः सः ॥ १६३८ ॥
२ सन्तानोऽनादिस्तु परस्परं हेतुहेतुभावात् । देहस्य च कर्मणश्च गौतम ! बीजा-ऽङ्कुरयोरिव । १६३९ ॥
३ कर्मणि चासति गौतम ! यदग्निहोत्रादि स्वर्गकामस्य । वेदविहितं विहन्यते दानादिफलं च लोके ॥ १६४० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७०० ॥
www.jainelibrary.org