________________
बृह
विशेषा० ॥७०१॥
कर्मणि चाऽसति गौतम ! अग्निहोत्रादिना स्वर्गकामस्य वेदविहितं यत् किमपि स्वर्गादिफलं तद् विहन्यते, स्वर्गादेः शुभ- कर्महेतुत्वात , तस्य च भवताऽनभ्युपगमात् । लोके च यद् दानादिक्रियाणां फलं स्वर्गादिकं प्रसिद्धं तदपि विहन्येत । अयुक्तं चेदम् , "किरियाफलभावाओ दाणाईणं फलं किसीए ब्व' इत्यादिना प्रतिविहितत्वादिति ॥ १६४०॥
कर्मानभ्युपगमे च यदीश्वरादयो जगद्वैचित्र्यकर्तार इष्यन्ते तदप्ययुक्तमिति दर्शयन्नाह
कैम्ममणिच्छंतो वा सुखै चिय जीवमीसराइं वा । मण्णसि देहाईणं जं कत्तारं न सो जुत्तो ॥ १६४१॥
कर्म वाऽनिच्छन्नग्निभूते गौतम ! यं कर्मरहितत्वात् शुद्धमेव जीवमात्मानमीश्वरांव्यक्तकाल-नियति यदृच्छादिकं वा देहादीनां कर्तारं मन्यसे, तत्राप्युच्यते-नासौ शुद्धजीव-श्वरादिः कर्ता युज्यत इति ॥ १६४१ ॥
कुतः ? इत्याह
उवगरणाभावाओ निच्चेद्वा-ऽमुत्तयाइओ वा वि । ईसरदेहारंभे वि तुल्लया वाऽणवत्था वा ॥ १६४२ ॥
नायमीश्वरजीवादिरकर्मा शरीरादिकार्याण्यारभते, उपकरणाभावात् , दण्डाद्युपकरणरहितकुलालवत् । न च कर्म विना शरीराद्यारम्भे जीवादीनामन्यदुपकरणं घटते, गर्भाद्यवस्थास्वन्योपकरणासंभवात् , शुक्र-शोणितादिग्रहणस्याप्यकर्मणोऽनुपपत्तेः । अथवा, अन्यथा प्रयोगः क्रियते-'निचढेत्यादि' नाकर्मा शरीराधारभते, निश्चेष्टत्वात् , आकाशवत् , तथाऽमूर्तत्वात् , आदिशब्दादशरीरत्वात् , निष्क्रियत्वात् , सर्वगतत्वात् , आकाशवदेवः तथा, एकत्वात् , एकपरमाणुवदित्यादि । अथोच्यते- शरीरवानीश्वरः, सर्वाण्यपि देहादिकार्याण्यारभते । नन्वीश्वरदेहारम्भेऽपि तर्हि तुल्यता पर्यनुयोगस्य, तथाहि- अकर्मा नारभते निजशरीरमीश्वरः, निरुपकरणत्वात् , दण्डादिरहितकुलालवदिति । अथान्यः कोऽपीश्वरस्तच्छरीरारम्भाय प्रवर्तते । ततः सोऽपि शरीरवान् , अशरीरो वा'। यद्यशरीरः, तर्हि नारभते, निरुपकरणत्वात् , इत्यादि सैव वक्तव्यता । अथ शरीरवान् , तर्हि तच्छरीरारम्भेऽपि तुल्यता, सोऽप्यकर्मा निजशरीरं नारभते, निरुपकरणत्वादित्यादि । अथ तच्छरीरमन्यः शरीरवानारभते । अतस्तस्याप्यन्यः, तस्याप्यन्य इत्येवमनवस्था । अनिष्ट च सर्वमेतत् । तस्माद् नेश्वरो देहादीनां कर्ता, किन्तु कर्मसद्वितीयो जीव एव । निष्पयोजनश्चेश्वरो देहादीन् कुर्वन्नुन्मत्तकल्प एव १ गाथा १६१५। २ कर्मानिच्छन् वा शुद्धमेव जीवमीश्वरादि वा । मन्यसे देहादीनां यं कर्तारं न स युक्तः ॥ १६४१॥ ३ क. ग. 'रायुक्त' ।
४ उपकरणाभावाद् निचेष्टा-ऽमूर्ततादितो वापि । ईश्वरदेहारम्भेऽपि तुल्यता वाऽनवस्था वा ॥ १६४२ ॥
॥७०१॥
in Education Internat
NA
Foresonal and Private Use Only
www.jaineibrary.org