SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ विशेषा. हदतिः । ७०२॥ स्यात् , सप्रयोजनकर्तृत्वे पुनरनीश्वरत्वप्रसङ्गः। न चानादिशुद्धस्य देहादिकरणेच्छा युज्यते, तस्या रागविकल्परूपत्वात् , इत्याद्यत्र बहु वक्तव्यम् , ग्रन्थगहनताप्रसङ्गात्तु नोच्यत इति । अनेनैव विधानेन विष्णु-ब्रह्मादयोऽपि प्रत्युक्ता द्रष्टव्या इति ।। १६४२ ॥ अथाशङ्कान्तरं प्रतिविधातुमाहअहव सहावं मनसि विण्णाणघणाइवेयवुत्ताओ। तह बहुदोसं गोयम ! ताणं च पयाणमयमत्थो ॥१६४३ ॥ अथ "विज्ञानघन एवैतेभ्यो भूतेभ्यः" इत्यादिवेदवचनश्रवणात् स्वभावं देहादीनां कर्तारं मन्यसे, यतः केचिदाहुः "सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । स्वभाववादिभिस्ते हि नाहुः स्वमपि कारणम् ॥ १ ॥ राजीवकण्टकादीनां वैचित्र्यं कः करोति हि ! । मयूरचन्द्रिकादिर्वा विचित्रः केन निर्मितः ? ॥२॥ कादाचित्कं यदत्रास्ति निःशेषं तदहेतुकम् । यथा कण्टकतैक्षण्यादि तथा चैते सुखादयः ॥ ३ ॥" तदेतद् यथा त्वं मन्यसे गौतम !, तथाऽभ्युपगम्यमानं बहुदोषमेव; तथाहि- यो देहादीनां कर्ता स्वभावोऽभ्युपगम्यते, स किं वस्तुविशेषो वा, अकारणता वा, वस्तुधर्मो वा ?, इति त्रयी गतिः । तत्र न तावद् वस्तुविशेषः, तद्ग्राहकममाणाभावात् । अप्रमाणकस्याभ्युपगमे कर्मापि कि नाभ्युपगम्यते, तस्यापि त्वदभिप्रायेणाप्रमाणकत्वात् । किश्च, वस्तुविशेषः स स्वभावो मूर्ती वा स्यात् , अमृतॊ वा ? । यदि मूर्तः, तर्हि स्वभाव इति नामान्तरेण कमैंवोक्तं स्यात् । अथामूर्तः, तर्हि नासौ कस्यापि कर्ता, अमूर्तत्वात् , निरुपकरणत्वाच्च, व्योमवदिति । न च मूर्तस्य शरीरादेः कार्यस्यामूर्तं कारणमनुरूपम् , आकाशवदिति । अथाकारणता स्वभाव इष्यते, तत्राप्यभिदध्महे- नन्वेवं सत्यकारणं शरीराद्युत्पद्यत इत्ययमर्थः स्यात् , तथा च सति कारणाभावस्य समानत्वाद् युगपदेवाशेषदेहोत्पादप्रसङ्गः । अपिच, इत्थमहेतुकमाकस्मिकं शरीराद्युत्पद्यत इत्यभ्युपगतं भवेत् । एतच्चायुक्तमेव, यतो यदहेतुकमाकस्मिकं न तदादिमत्पतिनियताकारम् , यथाऽभ्रादिविकारः, आदिमत्पतिनियताकारं च शरीरादि । तस्माद् नाकस्मिकम् , किन्तु कर्महेतुकमेव । पतिनियताकारत्वादेव चोपकरणसहितकर्तृनिवर्त्यमेव शरीरादिकं घटादिवदिति गम्यत एव । न च गर्भाद्यवस्थासु कर्मणोऽन्यदुपकरणं घटत इत्युक्तमेव । अथ वस्तुनो धर्मः स्वभावोऽभ्युपगम्यते । तथाप्यसौ यद्यात्मधर्मो विज्ञानादिवत् , तर्हि न शरीरादिकारणमसौ, अ. १ अथवा स्वभाव मम्पसे विज्ञानधनादिवेदोक्कात् । तथा बहुदोषं गौतम ! तेषां च पदानामयमर्थः ॥ १६४३ ॥ PARESere ॥७०२॥
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy