SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ विशेषा० 1100311 Jain Educationa Internatio मूर्तत्वात्, आकाशवत् इत्यभिहितमेव । अथ मूर्तवस्तुधर्मोऽसौ तर्हि सिद्धसाध्यता, कर्मणोऽपि पुद्गलास्तिकाय पर्यायविशेषत्वेनास्माभिरभ्युपगतत्वादिति । अपच, "पुरुष एवेदं सर्वम् - " इत्यादिवेदवाक्यश्रवणाद् भवतः कर्मास्तित्वसंशयः । एषां हि वेदपदानामयमर्थस्तव चेतसि विपरिवर्तते - पुरुष आत्मा, एवकारोऽवधारणे, स च पुरुषातिरिक्तस्य कर्म प्रकृती-श्वरादेः सत्ताव्यवच्छेदार्थः, इदं सर्व- प्रत्यक्षं वर्तमानं चेतनाचेतनखरूपम्, 'मिं' इति वाक्यालङ्कारे, यद् भूतम् - अतीतम्, यच्च भाव्यं भविष्यद् मुक्तिसंसारावपि स एवेत्यर्थः । उतामृतत्वस्येशान इति । उतशब्दोऽप्यर्थे । अपिशब्दश्च समुच्चये । अमृतत्वस्य च - अमरणभावस्य मोक्षस्येशानः प्रभुरित्यर्थः । यदनेनातिरोहतीति । चशब्दस्य लुप्तस्य दर्शनाद् यच्चानेन - आहारण, अतिरोहति- अतिशयेन दृद्धिमुपैति । यदेजति चलति, पश्वादि । यद् | नैजति - न चलति पर्वतादि । यद् दूरे मेर्वादि । यदु अन्तिके- उशब्दोऽवधारणे, यदन्ति के समीपे तदपि पुरुष एवेत्यर्थः । यदन्तः- मध्ये, अस्य - चेतनाचेतनस्य सर्वस्य यदेव सर्वस्याप्यस्य बाह्यतः; तत् सर्वं पुरुष एवेति । अतस्तद्व्यतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धेयेति ते मतिः । तथा, "विज्ञानघन एवैतेभ्यो भूतेभ्यः" इत्यादीन्यपि वेदपदानि कर्माभावप्रतिपादकानि मन्यसे त्वम् अत्रायेवकारस्य कर्मादिसत्ताव्यवच्छेदपरत्वात् । तदेवमेतेषां "पुरुष एवेददम् - " इत्यादीनां "विज्ञानघन " - आदीनां च वेदपदानां नायमर्थो यो भवतश्चेतसि वर्तते, किन्तु तेषां पदानामयं भावार्थ:- " पुरुष एवेदं सर्वम् - " इत्यादीनि तावत् पुरुषस्तुतिपराणि जात्यादिमत्याग हे तो रद्वैतभावनाप्रतिपादकानि च वर्तन्ते, न तु कर्मसत्ताव्यवच्छेदकानि । वेदवाक्यानि हि कानिचिद विधिवादपराणि, कान्यप्यर्थवादगधानानि, अपराणि त्वनुवादपराणि । तत्र “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादीनि विधिवादपराणि । अर्थवादस्तु द्विधा - स्तुत्यर्थवादः, निन्दार्थवादश्च । तत्र “पुरुष एवेदं सर्वम् - " इत्यादिकः स्तुत्यर्थवादः, तथा तत्र “स सर्वविद् यस्यैषा महिमा भुवि दिव्ये ब्रह्मपुरे ह्येष व्योनि आत्मासु प्रतिष्ठितस्तमक्षरं वेदयते यस्तु स सर्वज्ञः सर्ववित् सर्वमेवाविवेश" इति तथा, “एकया पूर्णयाहूत्या सर्वान् कामानवाप्नोति" इत्यादिकश्च सर्वोऽपि स्तुत्यर्थवादः । " एकया पूर्णया" इत्यादिविधिवादोsपि कस्माद् न भवति १ इति चेत् । उच्यते- शेषस्याग्निहोत्राद्यनुष्ठानस्य वैयर्थ्यप्रसङ्गादिति । " एष वः प्रथमो यज्ञो योऽग्निष्टोमः, योऽनेनानिष्ट्वाऽन्येन यजते स गर्तमभ्यपतत्" अत्र पशुमेधादीनां प्रथमकरणं निन्द्यत इत्ययं निन्दार्थवादः । “द्वादश मासाः संवत्सरः" "अग्निरुष्णः " " अग्निर्हिमस्य भेषजम्" इत्यादीनि तु वेदवाक्यान्यनुवाद१. छ. 'दिप्रथमगणधर लिखितवे' २ घ. ज. 'पूर्वया' For Personal and Private Use Only 000000eeded?A? बृहद्वतिः । ॥७०३ ॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy