SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ P विशेषा. ॥७०४॥ धानानि, लोकमसिद्धस्यैवार्थस्यैतेष्वनुवादादिति । तस्मात् "पुरुष एवेदं सर्वम्" इत्यादीनि वेदपदानि स्तुत्यर्थवादप्रधानानि द्रष्टव्यानि | "विज्ञानघन एवैतेभ्यः" इत्यत्राप्ययमर्थ:-विज्ञानघनाख्यः पुरुष एवायं भूतेभ्योऽर्थान्तरं वर्तते । स च कर्ता, कार्य च शरीरादिकमिति प्राक् साधितमेव । ततश्च कर्तृकार्याभ्यामर्थान्तरं करणमनुमीयते; तथाहि- यत्र कर्तृ-कार्यभावस्तत्रावश्यंभावि करणम् , यथाऽयस्कारा-ऽयापिण्डसद्भावे संदंशः, यच्चावात्मनः शरीरादिकार्यनिवृत्तौ करणभावमापद्यते तत् 'कर्म' इति प्रतिपद्यस्व । अपिच, साक्षादेव कर्मसत्ताप्रतिपादकानि श्रयन्त एव वेदवाक्यानि, तद्यथा- "पुण्यः पुण्येन कर्मणा पापः पापेन कर्मणा" इत्यादि । तस्मादागमादपि सिद्ध प्रतिपद्यस्व कर्मेति ॥१६४३॥ एवं भगवताऽभिहितेऽग्निभूतिः किं कृतवान् ? इत्याह 'छिन्नम्मि संसयम्मि जिणेण जरा-मरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं ॥१६४४॥ अस्याः पूर्ववदेव व्याख्या । इत्येकोनचत्वारिंशद्गाथार्थः ॥ १६४४ ॥ ॥ इति द्वितीयो गणधरवादः समाप्तः ॥ अथ तृतीयगणधरस्य वायुभूतेर्वक्तव्यतामभिधित्सुराह ते पव्वइए सोउं तइओ आगच्छइ जिणसगासं । वच्चामि वंदामी वंदित्ता पज्जुवासामि ॥ १६४५ ॥ ताविन्द्रभूत्य-ऽग्निभूती प्रबजितौ श्रुत्वा तृतीयो वायुभूतिनामा द्विजोपाध्यायो जिनसकाशमागच्छति सातिशयनिजबन्धुद्वय निष्क्रमणाकर्णनाज्झगिति विगलिताभिमानो भगवति संजातसर्वज्ञप्रत्ययः सन्नेवमवधार्यागतः- व्रजामि तत्राहमपि, बन्दे भगवन्तं श्रीमन्महावीरम् , वन्दित्वा च पर्युपासे- पर्युपास्ति करोमि तस्य भगवत इति ॥ १६४५ ॥ अपरं च, किं विकल्प्य समागतोऽसौ ? इत्याह छिन्ने संशय जिनेन जरा-मरणविप्रमुक्तेन । स श्रमणः प्रबजितः पञ्चभिः सह खण्डिकशतैः ॥ १६४४ ॥ २ तो प्रमजिती श्रुत्वा तृतीय आगच्छति जिनसकाशम् । व्रजामि वन्दे वन्दित्वा पर्युपासे ॥ १६४५ ॥ ||७०४॥ हारपसासन Educ a to For Personal and Private Use Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy