SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ बृहद विशेषा ॥७७१॥ देव्यामुत्तत्तणओ नहं व निच्चो मओ स दव्वतया । सव्वगयत्तावत्ती मइ त्ति तं नाणुमाणाओ ॥१८४२॥ स मुक्तात्मा नित्य इति प्रतिज्ञा । 'दब्वामुत्तत्तणउ त्ति' द्रव्यत्वे सत्यमूर्तत्वादिति हेतुः । 'दव्वतय त्ति' यथा द्रव्यत्वे सत्य- मूर्त नभ इति दृष्टान्तः । अथैवंभूता मतिः परस्य स्यात्- अनन हेतुना सर्वगतत्वापत्तिरप्यात्मनः सिध्यति; तथाहि- सर्वगत आत्मा, द्रव्यत्वे सत्यमूर्तत्वात् , नभोवत् । ततश्च धर्मविशेषविपरीतसाधनाद् विरुद्धोऽयम् । तदेतद् न । कुतः । अनुपानात्- अनुमानवाधितत्वात् सर्वगतत्वस्येत्यर्थः; तथाहि- असर्वगत आत्मा, कर्तृत्वात् , कुलालवत् । न च कर्तृत्वमसिद्धम् , भोक्तृत्व द्रष्टुत्वाद्यनुपप| तेरिति ।। १८४२ ॥ _ यदि वा, किमनेनैकान्तिकेन नित्यत्वग्रहेण ?, एकान्तानित्यत्ववादिनिराकरणार्थमेव ह्येवमभिहितम् , परमार्थतस्तु सर्वमेव | वस्तु जैनानां भवन-भङ्ग-स्थित्यात्मकमेवेति दर्शयन्नाह कोवा निच्चग्गाहो सव्वं चिय वि भव-भंग-हिइमइयं । पज्जायंतरमेत्तप्पणादनिच्चाइववएसो ॥ १८४३ ॥ गतार्था, नवरं पर्यायान्तरमावस्यार्पणं प्रधानभावेन विवक्षणं तस्मादनित्यादिव्यपदेशः, तथाहि- घटः पूर्वेण मृत्पिण्डपर्यायेण विनश्यति, घटपर्यायतया पुनरुत्पद्यते, मृदूपतया त्ववतिष्ठते । ततश्च यो विनष्टरूपतादिपर्यायो यदार्पितः प्रधानभूतो विवक्ष्यते, तदा - तेनानित्यत्वादिव्यपदेशः। एवमसावपि मुक्तः संसारितया विनष्टः, सिद्धतयोत्पन्नः, जीवत्व-सोपयोगत्वादिभिस्त्ववतिष्ठते, तथा, प्रथमसमयसिद्धतया विनश्यति, द्विसमयसिद्धतयोत्पद्यते, द्रव्यत्व-जीवत्वादिभिस्त्ववतिष्ठते । ततोऽर्पितपर्यायेणानित्यत्वादिव्यपदेश इति ।। १८४३॥ मुक्तस्यावस्थानक्षेत्रनिरूपणार्थमाह मुत्तस्स कोऽवगासो सोम्म ! तिलोगसिहरं, गई किह से ?। कम्मलहुया तहागइपरिणामाईहिं भणियमिदं॥१८४४॥ 'मुक्तस्य क्षीणसमस्तकर्मणो जीवस्य कोऽवकाशः कावस्थानम्, इति पृष्टे सत्याह-सौम्य ! त्रिलोकशिखरं, लोकान्त इत्यर्थः। १ च्यामूर्तत्वतो नभ इव नित्यो मतः स द्रव्यतया । सर्वगतत्वापत्तिमंतिरिति तद् नानुमानात् ॥१८५२॥ २ प. ज. धर्मिवि' । ३ को वा नित्यग्रहः सर्वमेवापि भव-भङ्ग-स्थितिमयम् । पर्यायान्तरमात्रार्पणादनित्यादिव्यपदेशः ॥ १८५३ ।। • मुक्तस्य कोऽवकाशः स त्रिलोकाश खरं, गतिः कथं तस्य ? । कमलघुता तथागतिपरिणामादिभिर्भणितमिदम् ।। १८४४ ॥ ॥७७१२॥ JainEducational Internation For Personal and Private Use Only www.jaineltrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy