________________
DU
॥७७०॥
न किञ्चिदित्यर्थः । एवमिहापि कर्मा सति कि जावस्याधिकं कृतम् , येन तदेकाकितारूपस्य मोक्षस्य कृतकत्वेनानित्यत्वं विशेषा. | स्यात् । स एव कर्मणो विनाशो घटविनाशवत् क्रियमाणत्वात् कृतकः, ततः सर्वकर्मक्षयलक्षणो मोक्षोऽनित्य इति चेत् । तदयुक्तम् ,
यतो यथाऽयमेव घटविनाशो यः केवलाकाशसद्भावो न पुनस्ततो विभिन्नोऽसौ, न चाकाशस्य किमप्यधिक क्रियते, तस्य सदाचस्थितत्वेन नित्यत्वात् , एवमिहाप्ययमेव कर्मणो विनाशो यः केवलात्मसद्भावः, न त्वात्मनो विभिन्नोऽसौ, न चात्मनः किश्चिदधिक विधीयते, तस्यापि नभोवद् नित्यत्वात् । तस्माद् न मोक्षस्य कृतकत्वमनित्यत्वं वा । कथश्चिच्चानित्यत्वे सिद्धसाध्यतैव, द्रव्य-पर्यायोभयरूपतया सर्वस्यापि वस्तुनो नित्यानित्यरूपत्वादिति ।। १८३९ ।।
आह- ननु कर्मपुद्गला ये निर्जीर्य जीवन परित्यक्तास्ते लोकमेवाभिव्याप्य तिष्ठन्ति, न पुनस्तद्वहिः कापि गच्छन्ति, जीवोऽपि च लोकमध्य एव तिष्ठति । ततश्च यथा घटवियुक्तस्याप्याकाशस्य तत्कपालपुद्गलसंयोगस्तदवस्थ एव, एवं कर्मवियुक्तस्याप्यात्मनो निर्जीर्णतत्पुद्गलसंयोगः समस्त्येव, इति कथं पुनरपि न तस्य तद्वन्धः ? इत्याशङ्कयाह--
'सोऽणवराहो व्व पुणो न बज्झए बंधकारणाभावा । जोगा य बंधहेऊ न य ते तस्सासरीरो त्ति ॥१८४०॥
स मुक्तो जीवः पुनरपि न बध्यते, बन्धकारणाभावात् , अनपराधपुरुषवत् , मनो-वाक्-काययोगादयश्च बन्धहेतबोऽभिधीयन्ते, न च ते मुक्तस्य सन्ति, शरीराद्यभावात् । न च कर्मवर्गणागतपुद्गलमात्रसंयोगमात्ररूपोत्र बन्धोऽधिक्रियते, अतिप्रसङ्गादिदोषाघ्रातत्वात् , किन्तु मिथ्यात्वादितहेतुनिबन्धन इति ।। १८४० ॥
आह- नन्वयं मुक्तात्मा सौगतानामिव भवतामप्यभिप्रायेण पुनरपि भवे प्रादुर्भवति, नवा ? इत्याशङ्कयाहन पुणो तस्स पसूई बीयाभावादिहंकुरस्सेव । बीयं च तस्स कम्मं न य तस्स तयं तओ निच्चो ॥१८४१॥
न तस्य मुक्तस्य पुनरपि भवप्रमूतिरुपजायते, बीजाभावात्- कारणस्यासत्त्वात् , यथाऽङ्करस्य तदभावाद् न प्रमूतिः । वीज चास्य कमवावगन्तव्यम् , तच मुक्तस्य नास्त्येव, ततः पुनरावृश्यभावाद् नित्योऽसाविति ॥ १८४१ ॥ इत्यश्च नित्यो मुक्तः । कुतः ? इत्याह
HD||७७०॥ १ सोऽनपराध इव पुनर्न बध्यते बन्धकारणाभावात् । योगाश्च बन्धहेतवो न च ते तस्याशरीर इति ॥ १८४०॥ २ क.ग.झ. 'जोगो य'। IR३ क.ग.स.'य सो त'। न पुनस्तस्य प्रसूति/जाभावादिहाङ्करस्येव । बीजं च तस्य कर्म न च तस्प तत् ततो नित्यः ।। १८४१ ॥ ५क.ग. "तिजा' ।
शकुमार
मारामाराम
STO
Jan Education Internati
For Personal and Private Use Only
www.jaineltrary.ory