________________
विशेषा ०
॥७३२॥
Jain Educatora Interna
हरा हस्ताभावे सव्वविणासो हवेज्ज दीहस्स । न य सो, तम्हा सत्तादयोऽणविक्खा घडाईणं ॥ १७१५॥ इतरथा - यदि घटादीनां सत्तादयोऽप्यन्यापेक्षा भवेयुः, तदा हस्वाभावे ह्रस्वस्य सर्वविनाशे दीर्घस्यापि वस्तुनः सर्वविनाशः स्यात्, ह्रस्वसत्तापेक्षित्वाद् दीर्घसत्तादीनाम् । न चैवमसौ दीर्घस्य सर्वविनाशो दृश्यते । तस्मात् निश्चीयते सन्त्यन्यानपेक्षा एव घटादीनां सत्ता-रूपादयो धर्माः, तत्सच्वे चापास्ता शून्यतेति ।। १७१५ ॥
यदुक्तम्- 'न स्वतः, नापि परतो नापि चोभयतो भावानां सिद्धिः, अपेक्षातः' इत्यादि । अत्र 'अपेक्षातः' इति विरुद्ध हेतुः, विपक्ष एव सत्त्वादिति दर्शयन्नाह -
वि अविक्खाऽविक्खणमविक्ख गोऽविक्खणिज्जमणविक्ख । सा न मया सव्वेसु वि संतेसु न सुन्नया नाम ॥ १७१६ ॥ याsपीयं खादेर्दीर्घाद्यपेक्षा साऽप्यपेक्षणं क्रियारूपम् ; तथा, अपेक्षकं कर्तारम्, अपेक्षणीयं च कर्म, अनपेक्ष्य न मता- न विदुषां सम्पता । ततः किम् ? इत्याह- एतेषु चापेक्षणा-पेक्षकाऽपेक्षणीयेषु सर्वेषु वस्तुषु सत्सु न काचित् शून्यता नाम । अतोऽपेक्षकादिलक्षणे विपक्ष एवापेक्षालक्षणस्य हेतोर्हतत्वाद् विरुद्धत्वमिति ।। १७१६ ।।
_ तस्मात् स्वतः, परत उभयतश्च भावानां सिद्धिरस्त्येव व्यवहारतः निश्श्यतस्तु स्वतः सिद्धा एव सर्वे भावा इति दर्शयति* किंचि सओ तह परओ तदुभयओ किंचि निश्चसिद्धं पि । जलओ घडओ पुरिसो तहं ववहारओ नेयं ॥ १७१७॥ निच्छयओ पुण बाहिरनिमित्तमेत्तोवओगओ सव्वं । होइ सओ जमभावो न सिज्झइ निमित्तभावे वि ॥ १७१८ ॥
इह किञ्चित् स्वत एव सिद्ध्यति, यथा कर्तृनिरपेक्षस्तत्कारणद्रव्यसंघातविशिष्टपरिणामरूपो जलदः । किञ्चित्तु परतः, यथा कुलालकको घटः । किञ्चिदुभयतः यथा माता - पितृभ्यां स्वकृतकर्मतश्च पुरुषः । किञ्चिद् नित्यसिद्धमेव यथाऽऽकाशम् । एतच्च व्यवहारनयापेक्षया द्रष्टव्यम् । निश्चयतस्तु बाह्यं निमित्तमात्रमेवाश्रित्य सर्व वस्तु स्वत एव सिध्यति, यद् यस्माद् बाह्यनिमित्तसद्भा
१ इतरथा इस्वाभावे सर्वविनाशो भवेद् दर्घिस्य । न च सः तस्मात् सत्तादयोऽनपेक्षा घटादीनाम् || १७१५॥
२ याऽप्यपेक्षाsपेक्षणमपेक्षकोऽपेक्षणीयमनपेक्ष्य । सा न मता सर्वेष्वपि सत्सु न शून्यता नाम ॥ १७१६ ॥
३ किञ्चित् स्वतस्तथा परतस्तदुभयतः किञ्चिद् नित्यसिद्धमपि । जलदो घटकः पुरुषस्तथा व्यवहारतो ज्ञेयम् ॥ ११७ ॥ नियतः पुनर्वहिर्निमित्तमात्रोपयोगतः सर्वम् भवति स्वतो यदभावो न सिध्यति निमित्तभावेऽपि ॥ १७१८॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७३२॥
www.jainelibrary.org