________________
विशेषा
ER वेऽपि खरविषाणादिरूपोऽभावः कदाचिदपि न सिध्यति । उभयनयमतं च सम्यक्त्वमिति ।। १७१७ ॥ १७१८ ।।
अथ यदुक्तम्- 'अस्थित्त-घडेगाणेगया व' इत्यादि, तत् प्रतिविधातुमाह॥७३॥
अत्थित्त-घडेगाणेगया य पज्जायमेतचिंतेयं । अत्थि घडे पडिवन्ने, इहरा सा किं न खरसिंगे ? ॥१७१९॥ . इह 'अस्ति घटो न तु नास्ति' इत्येवं प्रतिपन्ने सति तदनन्तरमेवास्तित्व-घटयोः 'किमेकता, अनेकता वा ?' इत्यादिना घटास्तित्वयोरेकत्वा-ऽनेकत्वलक्षणपर्यायमात्रचिन्तैव भवता कृता भवति, न तु तयोरभावः सिध्यति । अन्यथा ह्यभावरूपाविशेषाद् यथा घटा-ऽस्तित्वयोः, एवं खरविषाण-वन्ध्यापुत्रयोरप्येकत्वा-ऽनेकत्वचिन्ता भवतः किं न प्रवर्तते ? इति ॥ १७१९ ॥ किञ्च, यथा घटा-ऽस्तित्वयोरेकत्वाऽनेकत्वविकल्पौ त्वं विधत्से, तथा घट-शून्यतयोरपि तौ विधातुं शक्यते । कथम् ? इत्याह--
घड-सुन्नयन्नयाए वि सुन्नया का घडाहिया सोम्म !। एगत्ते घडओ चिय न सुण्णया नाम घडधम्मो॥१७२०॥
ननु घट-शून्यतयोरप्यन्यता, अनन्यता वा ?। यद्यन्यता, तर्हि 'सुन्नया का घडाहिया सोम्म ! त्ति' सौम्य व्यक्त ! शून्यता व का घटाधिका नाम ?- ननु घटमात्रमेव पश्यामः, न पुनः क्वचित् शून्यता घटादधिका समीक्ष्यते । अथानन्यता, तथापि सति घटशून्यत्वयोरेकत्वे घट एवासौ युज्यते, प्रत्यक्षत एवोपलभ्यमानत्वात् , न तु शून्यत्वं नाम कश्चित् तद्धर्मः, सर्वप्रमाणैरनुपलब्धे- 1 रिति ॥ १७२० ॥
अपिच,
"विण्णाण-वयण-वाईणमेगया तो तदत्थिया सिद्धा। अण्णत्ते अण्णाणी निव्वयणो वा कहं वाई?॥१७२१॥
'शून्यं सर्वमेव विश्वत्रयम्' इत्येवंभूतं यद् विज्ञानं वचनं च, तेन सह शून्यवादिनो भवत एकत्वम् , अनेकत्वं वा ? । यद्यक-न त्वम् , ततस्तदस्तिता वस्त्वस्तिता सिद्धेति कुतः शून्यता, वृक्षत्व-शिंशपात्वयोरिवैकत्वस्य वस्तुत्वात् । अन्यत्वे तु विज्ञान-वचनयोरज्ञानी निर्वचनश्च वादी कथं शून्यतां साधयेत् , शिलासंघातवत् ? इति ॥ १७२१ ॥ गाथा १६९३। २ अस्तित्व-घटकानेकता वा पर्यायमानचिन्तेयम् । अस्ति घटे प्रतिपन्ने, इतरथा सा किं न खरले ॥ १७१९॥ । घ. ज. 'घटसत्त्वयो'। |७३३॥
. घट-शून्यताम्यतायामपि शून्यता का घटाधिका सौम्य !। एकत्वे घटक एवं न शून्यता नाम घटधर्मः ॥१७२०॥ ५ विज्ञान-वचन-वादिनोरेकता ततस्तदस्तिता सिद्धा । अन्यत्वेऽज्ञानी निर्वचनो वा कथं वादी! ॥ १७२१॥
For Personal and
Use Only