________________
विशेषा 11७३१॥
| प्रवर्तते- दीर्घापेक्ष एव दीपेन ज्ञानाभिधानेन व्यवहारः किं न प्रवर्तते, असञ्चाविशेषात् । इति भावः । एवं 'किं दीहाओ हस्से ।। हस्साउ चेव किं न हस्सम्मि' इत्येतदपि द्रष्टव्यम् । तथा, किमिति वा न खपुष्पाद् दीर्घ इस्त्रे वा तज्ज्ञानाभिधानव्यवहृतिर्विधीयते । बदत्तिः। तथा, असत्त्वाविशेषत एव किमिति खपुष्पात् खपुष्प एव इस्व-दीर्घज्ञानादिव्यवहारो न प्रवर्तते । न चैवम् , तस्मात् सन्त्येव भावाः, न तु शून्यता जगत इति ॥ १७१२ ॥
अपिच, 'किंवाऽविक्खाए चिय होज मई वा सभाव एवायं । सो भावो ति सभावो वंझापुत्ते न सो जुत्तो ॥१७१३॥
अथवा, सर्वस्याप्यसत्त्वे इखादेदीर्घायपेक्षयापि किं कर्तव्यम् , शून्यताप्रतिकूलत्वात् तस्याः, घटायर्थसत्त्ववत् । अथ परस्य मतिर्भवेत् - स्वभावादेवापेक्षयैव हस्व-दीर्घादिव्यवहारः प्रवर्तते । न च स्वभावः पर्यनुयोगमर्हति; तथा चोक्तम्- “अग्निदहति नाकाशं कोत्र पर्यनुयुज्यताम् ?" इति । हन्त ! इत्थमपि हतोऽसि, यत खो भावः खभावस्ततः स्व-परभावाभ्युपगमात् शून्यताभ्युपगमहानिः । न च बन्ध्यापुत्रकल्पानामर्थानां स्वभावपरिकल्पना युक्तेति । भवतु वाऽपेक्षा, तथापि शून्यताऽसिद्धिः ।। १७१३ ॥
कुतः इत्याहहोज्जावेक्खाओ वा विण्णाणं वाभिहाणमेत्तं वा । दीहं तिवहस्सं ति व न उ सत्ता सेसधम्मा वा॥ ॥१७१४॥
अथवा, स्वतः सिद्ध वस्तुन्यपेक्षातो भवेत् । किम् ? इत्याह-विज्ञानमभिधानमात्रं वा । केनोल्लेखेन ? इत्याह- 'दीर्घम्' इति वा 'इस्खम्' इति वेति । किं पुनर्न भवेत् ? इत्याह-नवन्यापेक्षया वस्तूनां सत्ता भवति, नाप्यापेक्षिकहस्व-दीर्घत्वादिधर्मेभ्यः शेषा रूप-रसादयो धर्मा अन्यापेक्षया सिद्धयन्तिं । उत्पद्यन्ते च वस्तुसत्ताग्राहकाणि, रूपादिधर्मग्राहकाणि च ज्ञानानि । अतोऽन्यापेक्षाभावतः कथं स्वतः सिद्धस्य वस्तुसत्तादेरभावः, तत्सद्भावे च कथं शून्यता जगतः' इति ॥ १७१४ ॥
कथं पुनः सत्तादयोऽन्यापेक्षाः ? इत्याह--
OISODE
॥७३१॥
, किंवापेक्षयैव भवेत् मतिर्वा स्वभाव एवायम् । स्वो भाव इति स्वभावो वन्ध्यापुत्रे न स युक्तः ॥
१३॥ २ भवेदपेक्षातो वा विज्ञानं वाभिधानमात्रं वा । दीर्घमिति वा हस्वमिति वा न तु सत्ता शेषधर्मा वा ॥ 1010॥
Forondateur