SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥७३० ॥ Jan Education Internatio अथ 'इदं स्त्रम् ' ' इदं दीर्घम्' 'एतच्चोभयम्' इत्यादिस्व-परो भयबुद्धिः परमत्या- पराभ्युपगमेनोच्यते, न पुनः स्वतः सिद्धं स्वविषयज्ञानजनकं ह्रस्वादिकं किञ्चिदस्ति, अतो न कश्चित् पूर्वापरविरोध इत्यत्राह - ननु सर्वशून्यत्वे 'इदं स्वमतम्' 'एतच्च परमतम् ' इत्येतदपि स्व-परभावेन विशेषणं कुतः ?- न कुतश्चिदित्यर्थः, स्त्र-परभावेऽपि 'समया विवज्जओं वा' इत्याद्येवावर्तत इति भावः । स्वपरभावाद्यभ्युपगमे च शून्यत्वाभ्युपगमहानिरिति ।। १७०५ || १७०६ ।। १७०७ ।। १७०८ ।। १७०९ ।। अपिच, कमेण वा ते विष्णाणं होज दीह-हस्सेसु । जइ जुगवं कावेक्खा कमेण पुव्वम्मि काऽवेक्खा ? ॥ १७१० ॥ इमविणा वाजं बालस्सेह तस्स काऽवेक्खा । तुल्लेसु व काऽवेक्खा परोप्परं लोयणदुगे व्व १ ॥ १७११॥ ननु मध्यमा- प्रदेशिन्यादिदीर्घ-हस्वयोस्तवाभिप्रायेण स्वाकारप्रतिभासि ज्ञानं किं युगपदेव भवेत् क्रमेण वा ? | यदि युगपत्, तर्हि परानपेक्ष द्वयोरपि युगपदेव स्वप्रतिभासिनि ज्ञाने प्रतिभासात् कस्य किल काऽपेक्षा ? । अथ क्रमेण तदापि पूर्वमेव स्वप्रतिभासिना ज्ञानेन परानपेक्षमेव ह्रस्वस्य प्रदेशिन्यादेर्गृहीतत्वादुत्तरस्मिन् मध्यमादिके दीर्घे काऽपेक्षा ? । तस्माच्चक्षुरादिसामग्रीसद्भावे परानपेक्षमेव स्वकीयविविक्तरूपेण सर्वभावानां स्वज्ञाने प्रतिभासात् स्वत एव सिद्धिः । अथवा, बालस्य तत्क्षणमेव जातस्य शिशोर्यदिह नयनोन्मेपानन्तरमेवादौ विज्ञानम्, तत् किमपेक्ष्य प्रादुरस्ति १ । यदिवा, ये न इस्वे नापि दीर्घे, किन्तु परस्परं तुल्ये एव वस्तुनी, तयोर्युगपदेव स्वप्रतिभासिना ज्ञानेन गृह्यमाणयोः काऽन्योन्यापेक्षा ?- न काचित् यथा तुल्यस्य लोचनयुग्मस्य । तस्मादङ्गुल्यादिपदार्थानां नान्यापेक्षमेव रूपम्, किन्तु स्वप्रतिभासवता ज्ञानेनान्यनिरपेक्षा एव ते स्वरूपतोऽपि गृह्यन्ते । उत्तरकालं तु तत्तद्रूपजिज्ञासायां तत्तत्प्रतिपक्षस्मरणादिसहकारिकारणान्तरवशाद् दीर्घ-हस्वादिव्यपदेशाः प्रवर्तन्ते इति स्वतः सिद्धा एव सन्ति भावा इति ॥ १७१० ।।१७११॥ अपिच, किं हस्साओ दीहे दीहाओ चैव किं न दीहम्मि । कीस व न खपुप्फाउ किं न खपुष्फे खपुष्फाओ ? ॥ १७१२ ॥ हन्त ! यदि सर्वशून्यता, ततः किमिति ह्रस्वादेव प्रदेशिनीप्रभृतिद्रव्याद् दीर्घे मध्यमादिद्रव्ये दीर्घज्ञानाभिधानव्यवहारः १ युगपत् क्रमेण वा ते विज्ञानं भवेद् दीर्घ ह्रस्वयोः । यदि युगपत् काऽपेक्षा क्रमेण पूर्वस्मिन् काऽपेक्षा ? ॥ १७१० ॥ आदिमविज्ञानं वा यद् बालस्येह तस्य काऽपेक्षा । तुल्ययोर्वा काऽपेक्षा परस्परं लोचनद्विक इव ॥ १७११ ॥ २ किं स्वाद् दीर्घे दीर्घादेव किं न दीर्घे । कस्माद् वा न खपुष्पात् किं न खपुच्चे खपुष्पात् १ ॥ १७१२ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७३० ॥ www.janeibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy