________________
विशेषा. ॥७२९॥
वृहद्वतिः ।
वा, इदं च वाच्यमभिधेयमस्य शब्दसंदर्भस्य तथा, अयं स्वपक्षः, अयं च परपक्ष इति सर्वशून्यत्वे कुतोऽसौ विशेषो गम्यते । 'कि वेह थिरेत्यादि' पृथिव्याः स्थिरत्वम् , अपां द्रवत्वम् , बरुष्णत्वम् वायोश्चलत्वम् , आकाशस्यारूपित्वमित्यादयो नियताः सर्वदेवैकस्वभावाः विशेषाः सर्वशून्यतायां कुतो गम्यन्ते । तथा, शब्दादयो ग्राह्या एव, इन्द्रियाणि च श्रोत्रादीनि ग्राहकापेवेति कुतो नियमसिद्धिः।
'समयेत्यादि' ननु सर्वशून्यतायां स्वमा-ऽस्वम सत्या-ऽलीकादीनां विशेषनिवन्धनाभावात् समतैव कस्माद् न भवति-यादृशः स्वमः, अस्वमोऽपि तादृश एव; यादृशश्चास्वमः, स्वमोऽपि तादृश एवेत्यादि । अथवा, विपर्ययः कुतो न भवति-यः स्वमः सोऽस्वमः, यस्त्वस्वमः स स्वम इत्यादि । यदिवा, सर्वेषामपि स्वमा-ऽस्वमादीनां सर्वथाशून्यत्वेऽग्रहणमेव कस्माद् न भवति । भ्रान्तिवशादेव स्वप्ना-ऽस्वमादिग्रहणमिति चेत् । तदयुक्तम्- देश-काल-स्वभावादिनयत्येन तद्ग्राहकज्ञानोत्पत्तेः । किञ्च, इयं भ्रान्तिः किं विद्यते, नवा ? । यदि विद्यते, त_भ्युपगमविरोधः। अथ न विद्यते, तर्हि भ्रान्तेरसत्वाभावग्राहकज्ञानस्य निर्धान्तत्वात् सन्त्येव सर्वे भावाः, न पुनः शून्यतेति । अथवा, अन्यत् पृच्छामो भवन्तम्- ननु सर्वशून्यत्वे शून्यतैव सम्यक्त्वं सतां भावानां ग्रहणं सद्ग्रहः, भावसत्त्वग्रहणं पुनर्मिथ्यात्वमित्यत्र कस्ते विशेषहेतुः ।
यदुक्तम्- 'न स्वतो भावानां सिद्धिः' इत्यादिः तत्मतिविधानार्थमाह- 'किह स-परो-भयेत्यादि' ननु कथं इस्व-दीर्घो-भयविषये 'इदं हस्वम्' 'इदं दीर्घम्' 'एतत्तु तदुभयम्' इत्येवंभूता स्व-परो-भयबुद्धिर्युगपदाश्रीयते भवता, कथं च तेषां इस्व-दीर्घो-भयानां परस्परमसिद्धिरुपुष्यते ?- पूर्वापरविरुद्धत्वाद् नैतद् वक्तुं युज्यत इत्यर्थः । अयमत्र भावार्थः- न खल्वापेक्षिकमेव वस्तूनां सत्त्वम् , किन्तु स्वविषयज्ञानजननाद्यर्थक्रियाकारित्वमपि । ततश्च इख-दीर्घो-भयान्यात्मविषयं चेज्ज्ञानं जनयन्ति, तदा सन्त्येव तानि, कथं तेपामसिद्धिः । यदप्युक्तम्- 'मध्यमाङ्गुलिमपेक्ष्य प्रदेशिन्यां इस्वत्वमसदेवोच्यते' इत्यादि तदप्ययुक्तम् , यतो यदि मध्ममामपेक्ष्य प्रदशियां स्वतः सर्वथाऽसत्यामपि इस्वत्वं भवति, तदा विशेषाभावात् खरविषाणेऽपि तद् भवेत् , अतिदीर्येष्विन्द्रयष्ट्यादिधपि च तत् स्यात् । अथवा, प्रदेशिन्याः स्वापेक्षया स्वात्मन्यपि इस्वत्वं स्यात् , सर्वत्रासत्त्वाविशेषात् न चैवम् । तस्मात् स्वतः सत्यामेव प्रदेशिन्यां वस्तुतो. ऽनन्तधर्मात्मकत्वात् तत्तत्सहकारिसंनिधौ तत्तद्रूपाभिव्यक्तेस्तत्तज्ज्ञानमुत्पद्यते, न पुनरसत्यामेव तस्यामपेक्षामात्रत एव इस्वज्ञानमुपजायते । एवं दीर्घो-भयादिष्वपि वाच्यम् ।
1 ज. 'सद्भाव'। २ क. म. 'रुयुज्यते' ।
७२
Jain Education Informatie
For
and Private
www.jainelibrary.org