________________
विशेषा०
॥७२८॥
Jain Education Internatio
'विण्णाणमयत्तणओ घडविण्णाणं व सुमिणओ भावो । अहवा विहियनिमित्तो घडो व्व नेमित्तियत्ताओ॥ १७०४ ॥
भावः स्वन इति प्रतिज्ञा | विज्ञानमयत्वादिति हेतुः । घटविज्ञानवदिति दृष्टान्तः अथवा, भावः स्वः, नैमित्तिकत्वात्निमित्तैर्निष्पन्नो नैमित्तिकस्तद्भावस्तत्त्वं तस्मादित्यर्थः, घटवदिति । कथं पुनः स्वप्नो नैमित्तिकः ? इत्याह- यतो विहितनिमित्तः, विहितानि - 'अणुहूय-दिट्ठ-चिंतिय' इत्यादिना प्रतिपादितानि निमित्तानि यस्यासौ विहितनिमित्त इति ।। १७०४ ॥
सर्वशून्यतायां चेष्यमाणायां स्वनाऽस्वमादिव्यवहाराभावप्रसङ्ग एवेति दर्शयन्नाह -
सैव्वाभावे च कओ सुमिणोऽसुमिणो ति सच्चमलियं ति । गंधव्त्रपुरं पाडलिपुत्तं तत्थो वयारो ति ? ॥१७०५॥ कज्जं ति कारणं ति य सज्झमिणं साहणं ति कत्त त्ति । वत्ता वयणं वच्चं परपक्खोऽयं सपक्खोऽयं ? ॥ १७०६ ॥ किं वेह थिर-दवो-सिण-चलया-रूवित्तणाई निययाई । सद्दादओ य गज्झा सोचाइयाइं गहणाई ? || १७०७|| समया विवज्जओ वा सव्वागहणं व किं न सुण्णम्मि । किं सुण्णया व सम्मं सग्गहो किं व मिच्छत्तं ? ॥ १७०८॥ किह स-परो भयबुद्धी कहं च तेसिं परोप्परमसिद्धी । अह परमईए भण्णइ स परमइविसेसणं कत्तो ? ॥ १७०९||
सर्वाभावे च सर्वशून्यतायां चाभ्युपगम्यमानायां 'स्वप्नोऽयम्' 'अस्वमोऽयम्' इति कुतः - किंकृतोऽयं विशेषः १ इत्यर्थः । तथा, सत्यमिदम्, अलीकं वा तथा, गन्धर्वपुरमेतत् पाटलीपुत्रादि चेदम्; तथा, 'तत्थो वयारो त्ति' अयं तथ्यो निरुपचरितो मुख्यश्चतुष्पदविशेषः सिंहः, अयं त्वौपचारिको मनुष्यविशेषो माणवकः तथा कार्यमिदं घटादि, कारणं चेदं मृत्पिण्डादि, तथा, साध्यमिदमनित्यत्वादि. साधनं कृतकत्वादि, कर्ता घटादेः कुलालादिः तथा, अयं वक्ता वादी, वचनं चेदं व्यवयवं पञ्चावयवं
१ विज्ञानमयत्वतो घटविज्ञानमिव स्वमको भावः अथवा विहितनिमित्तो घट इव नैमित्तिकत्वात् ॥ १७०४ ॥ २ गाथा १७०३ ।
२ सर्वाभावे च कुतः स्वप्नोऽस्वम इति सत्यमलीकमिति । गन्धर्वपुरं पाटलिपुत्रं तथ्य उपचार इति ? ॥ १७०५ ॥ कार्यमिति कारणमिति च साध्यमिदं साधनमिति कर्तेति । वक्ता वचनं वाच्यं परपक्षोऽयं स्वपक्षोऽयम् ? ॥ १७०६ ॥ किं वेह स्थिर-द्रवो-रण- चलता-रूपित्वानि नियतानि । शब्दादयश्च ग्राह्याः श्रोत्रादिकानि प्राह्माणि ? ॥ १७०७ ॥ समता विपर्ययो वा सर्वाग्रहणं वा किं न शून्ये । किं शून्यता वा सम्यक् सद्ग्रहः किं वा मिध्यात्वम् ? ॥ १७०८ ॥ कथं स्व-परो भयबुद्धिः कथं च तेषां परस्परमसिद्धिः । अथ परमत्या भण्यते स्व-परमतिविशेषणं कुठः ? ॥ १७०९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७२८||
www.jainelibrary.org