________________
विशेषा०
॥७२७॥
Jain Educationa Internatio
सौम्य ! सन्ति भवतोsपि भावाः, संशयसमुत्थानात्, इह यत् संशथ्यते तदस्ति, यथा स्थाणु-पुरुषौ यच्चासद् न तत् संशय्यते, यथा खपुष्प- खरविषाणे । अथ स्थाणु-पुरुषलक्षणं दृष्टान्तमसिद्धं मन्यसे त्वम्, सर्वेषामपि स्थाणु- पुरुषादिभावानामविशेषेणैवासत्त्वाभ्युपगमात् । तदयुक्तम्, यतो ननु सर्वभावासच्चे संशयाभाव एव स्यात् इत्युक्तमेवेति ।। १७०१ ॥
अथ परमतमाशङ्कय परिहरन्नाह-
सव्वाभावे विमई संदेहो सिमिणए व्व, नो तं च । जं सरणाइनिमित्तो सिंमिणो न उ सव्वहाभावो ॥ १७०२ ॥
स्यान्मतिः परस्य - सर्वाभावेऽपि स्वप्ने दृष्टः संशयः, यथा किल कश्चित् पामरो निजगृहाङ्गणे 'किमयं द्विपेन्द्रो महीधो वा ?" इति संशेते; न च तत् तत्र किञ्चिदप्यस्ति, एवमन्यत्र सर्वभावाभावेऽपि संशयो भविष्यति । तच्च न, यद् यस्मात् स्वमेऽपि पूर्वदृष्टानुभूतस्मरणादिनिमित्तः संदेहः, न तु सर्वथा भावाभावेऽसौ क्वापि प्रवर्तते । अन्यथा हि यत् षष्ठभूतादिकं क्वचिदपि नास्ति तत्रापि संशयः स्यात्, विशेषाभावादिति । ननु किं स्वप्नोऽपि निमित्तमन्तरेण न प्रवर्तते । एवमेतत् ।। १७०२ ।।
कानि पुनस्तन्निमित्तानि ? इत्याह
अणु-दि- चिंतिय-सुय-पयइवियार देवया ऽणूया । सिमिणस्स निमित्ताई पुण्णं पात्रं च नाभावो ॥ १७०३॥
स्नान-भोजन- विलेपनादिकमन्यदाऽनुभूतं स्वमे दृश्यते इत्यनुभूतोऽर्थः स्वमस्य निमित्तम् । अथवा, करि तुरगादिकोऽन्यदा दृष्टोऽर्थस्तन्निमित्तम् । विचिन्तितश्च प्रियतमालाभादिः । श्रुतश्च स्वर्ग-नरकादिः । तथा, वात-पित्तादिजनितः प्रकृतिविकारः स्वमस्य निमित्तम् । तथा, अनुकूला प्रतिकूला वा देवता तन्निमित्तम् । तथा, अनूपः सजलप्रदेशः । तथा, पुण्यमिष्टस्वमस्य निमित्तम्, पापं चानिष्टस्य तस्य निमित्तम्, न पुनर्वस्त्वभावः । किञ्च, स्वमोऽपि तावद् भाव एव । ततस्तस्यापि सच्चे कथं 'शून्यं जगत्' इति भवता प्रतिज्ञायते १ ।। १७०३ ॥
कथं पुनः स्वमस्य भावत्वम् १ इत्याह-
१ सर्वाभावेऽपि मतिः संदेहः स्वशक इव, नो तच्च यत् स्मरणादिनिमित्तः स्वतो न तु सर्वथाऽभावः ॥ १७०२ ।।
२ अनुभूत दृष्ट चिन्तित श्रुत-प्रकृतिविकार देवता-अनूपाः । स्वमस्य निमित्तानि पुण्यं पापं च नाभावः ॥ १७०३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७२७॥
www.janibrary.org.