________________
विशेषा०
॥७२६॥
Jan Education Internatio
एतदेव भावयति
को वा विसेसहेऊ सव्वाभावे वि थाणु-पुरिसेसु । संका न खपुप्फाइसु विवज्जओ वा कहं न भवे ? || १६९८ || को वात्रविशेषहेतुरुच्यतां यत्- सर्वाभावे सर्वशून्यतायामविशिष्टायामपि स्थाण्वादिषु संशयो भवति, न खपुष्पादिषु ? । ननु विशेषहेत्वभावादविशेषेण सर्वत्र संशयोऽस्तु, नियामकाभावाद् । विपर्ययो वा भवेत् खपुष्पादिषु संशयः स्याद् न स्थाण्वादिष्विति भावः ।। १६९८ ॥
अपि च,
पेच्चक्खओ णुमाणादागमओ वा पसिद्धिरत्थाणं । सव्वष्पमाणविसयाभावे किह संसओ जुत्तो ? ॥ १६९९ ॥ यदा हि प्रमाणैरर्थानां प्रसिद्धिर्जाता भवेत् तदा कथञ्चित् कचिद् वस्तुनि संशयो युज्येत । यदा च सर्वेषां प्रमाणानां सर्वेषां च तद्विषयाणामभावस्तदा कथं संशयोऽस्तु, संशयस्य ज्ञातृ - ज्ञेयाद्यर्थसामग्रीजन्यत्वात् । सर्वशून्यत्वे च तदभावाद् न संशयोद्भूतिः, निर्मूलत्वादिति भावः ।। १६९९ ।।
एतदेव समर्थयति —
जं संसयाद नाणपज्जया तं च नेयसंबद्धं । सव्वन्नेयाभावे न संसओ तेण ते जुत्तो ॥ १७०० ॥ यस्मात् संशय-विपर्ययाऽनध्यवसाय निर्णया विज्ञानपर्ययाः, तच्च ज्ञेयनिबन्धनमेव, सर्वशून्यतायां न ज्ञेयमस्ति तस्माद् न तत्र संशयो युक्तः । सति च संशयेऽनुमानसिद्धा एव भावाः ।। १७०० ।।
कथम् ? इत्याह
सैंति च्चिय ते भावा संसयओ सोम्म ! थाणु- पुरिस व्व । अह दिहंतमसिद्धं मण्णसि नणु संसयाभावो ॥ १७०१ ॥
१ को वा विशेषहेतुः सर्वाभावेऽपि स्थाणु-पुरुषयोः । शङ्का न खपुष्पादिषु विपर्ययो वा कथं न भवेत् ? ।। १६९८ ॥
२ प्रत्यक्षतोऽनुमानादागमतो वा प्रसिद्धिरर्थानाम् । सर्वप्रमाणविषयाभावे कथं संशयो युक्तः १ ॥ १६९९ ॥
३ यत् संशयादयो ज्ञानपर्ययास्तच्च ज्ञेयसंबद्धम् । सर्वज्ञेयाभावे न संशयस्तेन ते युक्तः ॥ १७०० ॥
४ सन्त्येव ते भावाः संशयतः सौम्य ! स्थाणु-पुरुषाविव । अथ दृष्टान्तमसिद्धं मन्यसे ननु संशयाभावः ॥ १७०१ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥७२६॥
www.janelibrary.org