SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ SoSER स्वरूपतो नाभिलाप्याः, पृथगेकैकावस्थाया कार्यस्यानुत्पादात् , उत्पत्तिमन्तरेण च घटादिसंज्ञाऽप्रवृत्तेः; संज्ञाऽभावे चाभिलप्तुमशक्यविशेषा• त्वादिति । कुतः पुनः पृथगवस्थायां संज्ञाऽप्रवृत्तिः? इत्याह-'लोके यावदित्यादि' लोके यावत् संज्ञा 'घटोऽयम्' इत्यादिसंज्ञाप्रवृत्तिः, ER तावत् संपूर्ण कार्य संपूर्णसामग्रयामेव यस्माद् दृश्यते, पृथगभावे च सामग्रयामप्यभावात् सिकतातैलवद् न सन्त्येव भावाः, भावासत्त्वे च कुतः सामग्रीसद्भावः । इति ॥ १६९५॥ प्रकारान्तरेणापि शून्यतासिद्ध्यर्थमाह परभागादरिसणओ सव्वाराभागसुहमयाओ य । उभयाणुवलंभाओ सव्वाणुवलडिओ सुण्णं ॥ १६९६ ॥ इह यत् तावददृश्यं तदसदेव, अनुपलम्भात , खरविषाणवदिति निवृत्ता तद्वार्ता । दृश्यस्यापि च स्तम्भ-कुम्भ-कुड्यादेः पर-मध्यभागयोरसत्त्वमेव, अर्वाग्भागान्तरितत्वेन तयोरप्यदर्शनात , आराद्भागस्यापि च सावयवत्वात् पुनरन्यः खल्वाराद्भागः, तस्याप्यन्य: पुनस्तस्याप्यन्य इत्येवं तावत् , यावत् सर्वारातीयभागस्य, परमाणुपतरमात्रत्वेनातिसौक्ष्म्यात्, पूर्वेषां चाराद्भागानामन्यस्यान्येनान्तरितत्वेनानुपलब्धेः । ततश्चोक्तन्यायेन परभागसरातीयभागलक्षणोभयभागानुपलम्भात् सर्वस्यापि वस्तुजातस्यानुपलब्धेः शून्य जगदिति । उक्तं च-- "यावद् दृश्यं परस्तावद् भागः स च न दृश्यते । तेन ते नाभिलाप्या हि भावाः सर्वे स्वभावतः ॥ १॥" तदेवमुक्तयुक्त्या सर्वस्यापि भूतादेरभावः पामोति, श्रूयते च श्रुतौ भूतादिसद्भावोऽपीति संशयः । इति पूर्वपक्षः ॥ १६९६ ॥ अथ भगवान् प्रतिविधानमाह-- मा कुरु वियत्त ! संसयमसइ न संसयसमुब्भवो जुत्तो । खकुसुम-खरसिंगेसु व, जुत्तो सो थाणु-पुरिसेसु ॥१६९७॥ आयुष्मन् व्यक्त ! मा कृथाः संशयं- मा भूताभाव बुध्यस्व, यतोऽसति भूतकदम्बके संशयः खकुसुम-खरविषाणयोरिव न युक्तः, अपि त्वभावनिश्चय एव स्यात् । सत्स्वेव च भूतेषु स्थाणु-पुरुषादिष्विव संशयो युक्तः । यदि पुनरसत्यपि वस्तुनि संदेहः स्यात् | तदाऽविशेषेण खरविषाणादिष्वपि स्यादिति भावः ॥ १६९७ ॥ , परभागादर्शनतः साराजागसीदम्याच । उभयानुपलम्भात् सर्वानुपलब्धितः शून्यम् ॥ १९॥ २ मा कुरु व्यक्त ! संशयमसति न संशयसमुद्भवो युक्तः । खकुसुम-खरशृङ्योरिव, युक्तः स स्थाणु-पुरुषयोः ॥ १६९०॥ ७२५॥ For Personal and Present
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy