SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ereta विशेषा. बृहद्वा ७२४॥ PR इह तावद् न जातं जायते, जातत्वादेव, निष्पन्नघटवत् । अथ जातमपि जायते, तीनवस्था, जातत्वाविशेषण पुनःपुनर्जन्मप्रसङ्गात् । अथानातं जायते । तत्रोत्तरमाह- 'अभाव त्ति' सूचकत्वात् सूत्रस्य, तीभावोऽपि खरविषाणलक्षणो जायताम् , अजात त्वाविशेषात् । अथ जाताजातरूपं जायते । तदप्ययुक्तम् । कुतः ? इत्याह- उभयदोषान प्रत्येकोभयपक्षोक्तदोषापत्तेरित्यर्थः । किञ्च, - एतज्जाताजातलक्षणमुभयमस्ति वा, न वा । यद्यस्ति, तर्हि जातमेव तत् , न पुनरुभयम् , तत्र चोक्तो दोषः । अथ नास्ति, तथापि नोभयं तत् , किन्त्वजातमेव, तत्रापि चाभिहितमेव दूषणम् । नापि जायमानं जायते, पूर्वोक्तविकल्पढ्यानतिवृत्तेः, तथाहि- तदपि जायमानमस्ति, नवा ? । यद्यस्ति, तर्हि जातमेव तत् । नास्ति चेत् , तवजातमेव । पक्षद्वयेऽपि चास्मिन्नभिहित एव दोषः । उक्तं च “गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिर्मुक्तं गम्यमानं न गम्यते' ॥ १॥" इत्यादि । यस्मादेवम् , तस्मादनवस्थादिदोषप्रसङ्गेन वस्तूनामुत्पादायोगाजगतः शून्यतैव युक्तेति ॥ १६९४ ।। प्रकारान्तरेणापि वस्तूत्पत्त्ययोगतः शून्यतासाधनार्थमाह-- हेऊ-पच्चयसामग्गि वीसु भावेसु नो व जं कजं । दीसइ सामग्गिमयं सव्वाभावे न सामग्गी ॥१६९५॥ हेतवः- उपादानकारणानि, प्रत्ययास्तु निमित्तकारणानि, तेषां हेतु-प्रत्ययानां या सामग्री तस्या विष्वग् भावेषु पृथगवस्थासु यत् कार्य न दृश्यते, दृश्यते च सामग्रीमयम्- संपूर्णसामग्यवस्थायां पुनदृश्यत इत्यर्थः । एवं च सति कार्यस्य सर्वाभाव एवं युक्त इति शेषः । सर्वाभावे च न सामग्री- नैव सामग्रीसद्भावः प्रामोतीत्यर्थः । ततः सर्वशून्यतैवेति भावः । इदमत्र हृदयम्- हेतवश्व प्रत्ययाश्च स्वजन्यमर्थ किमेकैकशः कुर्वन्ति, संभूय वा? । न तावदेकैकशः, तथाऽनुपलब्धेः । तत एकैकस्मात् कार्यस्याभावात् सामग्यमपि तदभाव एव स्यात् , सिकताकणतैलवदिति । इत्थं च सर्वस्यापि कार्यस्योत्पत्त्यभावे सामग्रीसद्भावो न पामोति, अनुत्पन्नायाः सामग्य अप्ययोगात् । ततश्च सर्वशून्यतैव जगतः । उक्तं च "हेतु-प्रत्ययसामग्री पृथग् भावेष्वदर्शनात् । तेन ते नाभिलप्या हि भावाः सर्वे स्वभावतः ॥१॥" "लोके यावत् संज्ञा सामग्यामेव दृश्यते यस्मात् । तस्माद् न सन्ति भावा भावे सति नास्ति सामग्री ॥१॥" इत्यादि । अस्य च व्याख्या-पृथग् भावेष्वदर्शनात् 'कार्यस्य' इति शेषः । तेन ते घटादयो भावाः सर्वेऽपि स्वभावतः नागार्जुनकृते मध्यमककारिकानन्धे कारिका १५॥ R २ हेतु-प्रत्ययसामग्री विश्वगू भावेषु नो वा यत् कार्यम् । दृश्यते सामग्रीमयं सर्वाभाव न सामग्री ॥ १६९५ ॥ ३ प. ज. अत्र व्या' । साथससससससाना सर ७२४॥ Forson and Private Use Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy