________________
विशेषा०
॥७२३॥
Jain Educationa Internation
- अनुभवत इत्यर्थः, स्व-परो भयव्यतिरेकेणान्यस्य वस्तुनोऽसच्चेन निर्हेतुकत्वमसङ्गात् । एवं ह्रस्व-दीर्घलक्षणे दृष्टान्तेऽपि 'अपेक्षातः' इत्यस्य ह्रस्व-दीर्घत्वासिद्धिलक्षणेन साध्येनान्वयो भावनीयः । तथाहि प्रदेशिन्या अङ्गुष्ठमपेक्ष्य दीर्घत्वं प्रतीयते, मध्यमां त्वपेक्ष्य ह्रस्वत्वम्, परमार्थेन स्त्रियं स्वतो न ह्रस्वा, नापि दीर्घा । तदेवं न स्वतो ह्रस्व-दीर्घत्वयोः सिद्धिः । ततः परतः, उभयतः, अनुभयतन तत्सिद्ध्यभावो यथोक्तवद् भावनीयः, तदुक्तम् —
"न दीर्घेऽस्तीह दीर्घत्वं न हस्खे नापि च द्वये । तस्मादसिद्धं शून्यत्वात् सदित्याख्यायते क हि ? ॥ १ ॥ "
" ह्रस्वं प्रतीत्य सिद्धं दीर्घ, दीर्घ प्रतीत्य ह्रस्वमपि । न किंचिदस्ति सिद्धं व्यवहारवशाद् वदन्त्येवम् ॥ १ ॥" | १६०२ ॥
इतव सर्वजगच्छ्रन्यता । कुतः ? इत्याह
अत्थित्त- घडेगाणेगया व सव्वेगयाइदोसाओ । सव्वेऽणभिलप्पा वा सुण्णा वा सव्वहा भावा ॥ १६९३ ॥ नन्वस्तित्व- घटयोरेकत्वम्, अनेकत्वं वा । यद्येकत्वम्, तर्हि सर्वेकता प्राप्नोति यो योऽस्ति स स घट इत्यस्तित्वे घटस्य प्रवेशात् सर्वस्य घटत्वप्रसङ्गः स्यात्, न पटादि पदार्थान्तरम् । घटो वा सर्वसच्चाव्यतिरेकात् सर्वात्मकः स्यात् ; अथवा, यो घटः स एवास्तीति घटमात्रेऽस्तित्वं प्रविष्टम्, ततोऽन्यत्र सच्चाभावादघटस्य सर्वस्याप्यभावप्रसङ्गतो घट एवैकः स्यात् । सोऽपि वा न भवेत्, व्यावृत्तो हि घटो भवति, यदा च तत्प्रतिपक्षभूतोऽघट एव नास्ति, तदा किमपेक्षोऽसौ घटः स्यात् ? । इति सर्वशून्यत्वमिति । अथ घट सवयोरन्यत्वमिति द्वितीयो विकल्पः । तर्हि सस्वरहितत्वादसन् घटः, खरविषाणवदिति । अपिच, सतो भावः सचमुच्यते, तस्य च स्वाधारभूतेभ्यो घटादिभ्यः सद्भयोऽन्यत्वेऽसत्त्वमेव स्यात्, आधारादन्यत्वे आधेयस्याप्यनुपपत्तेः । तदेवमस्तित्वेन सह घटादीनामेकत्वाऽन्यत्वविकल्पाभ्यामुक्तन्यायेन सर्वैकतादिदोषप्रसङ्गात् सर्वेऽपि भावा अनभिलप्या वा भवेयुः, सर्वथा शून्या वा स्युः, सर्वथैव तेषामभावो वा भवेदित्यर्थः । अपिच, यद् नोत्पद्यते तत्तावद् निर्विवादं खरविषाणवदसदेव इति निवृत्ता तत्कथा | यदप्युत्पत्तिमल्लोकेऽभ्युपगम्यते, तस्यापि जाता-जातादिविकल्पयुक्तिभिरुत्पादो न घटते, इति शून्यतैव युक्तेति ।। १६९३ ॥
एतदेवाह -
जया-जायो भयओ न जायमाणं च जायए जम्हा । अणवत्था ऽभावो-भयदोसाओ सुण्णया तम्हा ॥१६९४ ॥
१ अस्तित्व घटेकानेकता या सर्वेकतादिदोषात् । सर्वेऽनभिलाप्या वा शून्या वा सर्वथा भावाः || १६९३ ॥ २ घ. ज. 'तदाह' ।
३ जाता-जातोभयतो न जायमानं च जायते यस्मात् । अनवस्था ऽभावो भयदोषात् शून्यता तस्मात् ॥ १६९४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७२३॥
www.jainetbrary.org