________________
विशेषा.
॥७२२॥
ENTERTATRIERRIAGEमस्त
भूयाइसंसयाओ जीवाइसु का कह त्ति ते बुद्धी । तं सव्वसुण्णसंकी मन्नसि मायोवमं लोयं ॥१६९१॥
आयुष्मन् व्यक्त ! भूतेषु भवतः संदेहः, यतः स्वमोपमानि मायोपमानि चैतानि भवेयुरिति त्वं मन्यसे । यथा हि स्वमे किल कश्चिद् निःस्खोऽपि निजगृहाङ्गणे गजघटा-तुरगनिवह मणि-कनकराश्यादिकमभूतमपि पश्यति, मायायां चेन्द्रजालविलसितरूपायामविद्यमानमपि कनक-मणि-मौक्तिक-रजतभाजना-ऽऽराम-पुष्प-फलादिकं दृश्यते, तथैतान्यपि भूतान्येवंविधान्येवेति मन्यसे, यद् यस्माद् विचार्यमाणान्येतानि सर्वथैव न काश्चिद् युक्ति भजन्ते सहन्ते । भूतेषु च संशये जीव-पुण्य-पापादिषु किल का वार्ता, भूतविकाराधिष्ठानत्वात् तेषाम् ?, इति तव बुद्धिः । तस्मात् सर्वस्यापि भूत-जीवादिवस्तुनस्त्वदभिप्रायेणाभावात् सर्वशून्यताशङ्की त्वं निरवशेषमपि लोकं मायोपमं स्वप्ने-न्द्रजालतुल्यं मन्यस इति ॥ १६९० ॥ १६९१ ॥
युक्ति चात्र व्यक्तचेतोगतां भगवान् व्यक्तीकुर्वजाह-- जह किर न सओ परओ नोभयओ नावि अन्नओ सिद्धी । भावाणमवेक्खाओ वियत्त! जह दीह-हस्साणं॥१६९२॥
व्यक्त ! भवतोऽयमभिप्रायः- यथा किल न स्वतः, न परतः, न चोभयतः, नाप्यन्यतो भावानां सिद्धिः संभाव्यते । कुतः ? इत्याह- अपेक्षात:- कार्यकारणादिभावस्यापेक्षिकत्वादित्यर्थः, इस्व-दीर्घव्यपदेशवत् । तथाहि- यत् किमपि भावजातमस्ति तेन सर्वेणापि कार्येण वा भवितव्यम् , कारणेन वा । तत्र कार्य कारणेन क्रियत इति कारणायत्त एव तस्य कार्यत्वव्यपदेशः, न तु कार्यस्य कार्यत्वं स्वतः सिद्धं किमप्यस्ति । एवं कारणमपि कार्य करोतीति कार्यायत्त एव तस्य कारणत्वव्यपदेशः, न तु तस्य कारणत्वं | स्वतः सिद्ध किश्चिदस्ति । तदेवं कार्यादिभावः स्वतो न सिध्यति । यच्च स्वतो न सिद्धं तस्य परतोऽपि सिद्धिर्नास्ति, यथा खरविषाणस्य । ततश्च न स्वतः कार्यादिभावः, नापि परतः। स्व-परोभयतस्तर्हि तस्य सिद्धिरिति चेत् । तदयुक्तम् , व्यस्तादुभयतस्तत्सिद्धेरभावात् तत्समुदायेऽपि तदयोगात् । न हि सिकताकणेषु प्रत्येकमसत् तैलं तत्समुदाये प्रादुर्भवति ।
अपिच, उभयतः सिद्धिपक्ष इतरेतराश्रयदोषः प्रामोति । यावद्धि कार्य न सिध्यति न तावत्कारणसिद्धिरस्ति, यावच्च कारणं न सिध्यति न तावत् कार्य सिद्धिमासादयति । अत इतरेतराश्रयदोषः। तस्माद् नोभयतोऽपि कार्यादिभावसिद्धिः । नाप्यन्यतः
, भूतादिसंशयात् जीवादिषु का कथेति ते बुद्धिः । त्वं सर्वशून्यशङ्की मन्यसे मायोपमं लोकम् ॥ १६९१ ॥ २ यथा किल न स्वतः परतो नोभयतो नाप्यन्यतः सिद्धिः । भावानामपेक्षातो व्यक्त ! यथा दीर्घ इस्वयोः ॥ १६९२ ॥
७२२॥
in Education Internation
Forson and Private Use Only
1.
www.
brary.org