________________
विशेषा०
॥७६०॥
Jain Education International
बन्धस्यैवाभावात्; मोचयति वा नान्यम्, इत्यनेनाकर्तृकत्वमाह; नवा एष बाह्यम्- आत्मभिन्नं महदहङ्कारादि, अभ्यन्तरं - निजस्वरूपमेव, वेद - विजानाति, प्रकृतिधर्मत्वाज्ज्ञानस्य, प्रकृतेश्वा चेतनत्वात् । ततश्चामूनि किल बन्ध-मोक्षाभावप्रतिपादकानि । तथा, न ह वै नैवेत्यर्थः सशरीरस्य प्रिया-प्रिययोर पहतिरस्तीति- बाह्या-ऽऽध्यात्मिकानादिशरीरसंतानयुक्तत्वात् सुख-दुःखयोरपहतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तं- अमूर्तमित्यर्थः, प्रिया-प्रिये न स्पृशतः, तत्कारणभूतस्य कर्मणोऽभावादित्यर्थः । अमूनि च बन्धमोक्षाभिधायकानीति । अतः संशयः । तत्र “ स एष विगुणो विभुः" इत्यादीनां नायमर्थः किन्त्वयं वक्ष्यमाणलक्षण इति ॥ १८०४ ||
अत्र भाष्यम् –
'तं मन्नसि जइ बंधो जोगो जीवस्स कम्मुणा समयं । पुव्वं पच्छा जीवो कम्मं व समं व ते होज्जा १ ॥ १८०५ ॥ 'वेयपयाण य' इत्यत्र चशब्दाद् युक्तिं च त्वं न जानाति । कुतः ? यस्मादायुष्मन् मण्डिक! त्वमेवं मन्यसे- जीवस्य बन्धो यदि कर्मणा समकं सार्धं योगः संयोगोऽभिप्रेतः स खल्वादिमान्, आदिरहितो षा ? । यद्यादिमान् ततः किं पूर्व जीवः प्रसूयेत पश्चात् कर्म, पूर्व वा कर्म पश्चाज्जीवः प्रसूयेत, समं वा युगपद् वा तौ द्वावपि प्रसूयेयाताम् ? इति पक्षत्रयमिति ।। १८०५ ॥
अत्राद्यपक्षस्य दूषणमाह -
fe youtऊओ खरसंगं वायसंभवो जुत्तो । निक्कारणजायरस य निक्कारणउ च्चिय विणासो ॥ १८०६ ॥ 'पूर्व जीवः पश्चात्कर्म' इत्येतदयुक्तम्, यतो न कर्मणः पूर्व 'खरसंगं वायसंभवो जुत्तो' खरशृङ्गस्येवात्मनः संभवो युक्तः, अहेतुकत्वात् इह यदहेतुकं तद् न जायते, यथा खरशृङ्गम् यश्च जायते तद् निर्हेतुकमपि न भवति, यथा घटः, निष्कारणस्य च जातस्य निष्कारण एव विनाशः स्यादिति ।। १८०६ ।।
अमेव विकल्पं दूषयितुमाह -
अहवाऽणाइ च्चिय सो निक्कारणओ न कम्मजोगो से । अह निक्कारणओ सो, मुक्कस्स वि होहिइ स भुज्जो ॥ १८०७ ॥
१ त्वं मन्यसे यदि बन्धो योगो जीवस्य कर्मणा समकम् । पूर्व पश्चाज्जीवः कर्म वा समं वा ते भवेताम् ? ॥ १८०५ ॥
२ न हि पूर्वमहेतोः खरशृङ्गमिवात्मसंभवो युक्तः । निष्कारणजातस्य च निष्कारणक एव विनाशः ॥ १८०६ ॥
३ अथवाऽनादिरेव स निष्कारणको न कर्मयोगस्तस्य । अथ निष्कारणः सः, मुक्तस्यापि भविष्यति स भूयः ॥ १८०७ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥७६०/
www.jainelibrary.ing