________________
बृहद्वत्तिः ।
विशेषा ॥७६१॥
अथ चेत् कर्मणः पूर्वमात्माऽनादिकालसिद्ध एव, इति किं तस्य सहेतुक-निर्हेतुकचिन्तया ? इति । अत्रोच्यते- 'निकारणओ इत्यादि' यद्येवम् , ततः 'से' तस्य जीवस्य कर्मयोगः कर्मवन्धो न प्राप्नोति, अकारणत्वात् , नभस इव । अथ निष्कारणोऽप्यसौभवति, तर्हि मुक्तस्यापि भूयः स भविष्यति, निष्कारणत्वाविशेषात् , ततश्च मुक्तावप्यनाश्वास इति ॥ १८०७॥ यदिवा, होज स निच्चमुक्को बंधाभावम्मि को व से मोक्खो ?। न हि मुक्कव्ववएसो बंधाभावे मओ नभसो ॥१८०८॥
अथवा, कर्मयोगाभावाद् नित्यमुक्त एवासौ भवेत् । यदिवा, बन्धाभावे कः किल तस्य मोक्षव्यपदेशः? । न ह्यबद्धस्य नभसः कस्यापि मुक्तव्यपदेशो मतः, बन्धपूर्वकत्वाद् मोक्षस्य । तस्माद् न 'पूर्व जीवः पश्चात् कर्म' इति प्रथमविकल्प इति ॥ १८०८ ॥
अथ 'पूर्व कर्म पश्चाज्जीवः, युगपद् वा द्वावपि' इति पक्षद्वयस्य प्रतिविधानमाहने य कम्मस्स वि पुव्वं कत्तुरभावे समुब्भवो जुत्तो । निक्कारणओ सो वि य तह जुगवुप्पत्तिभावे य ॥१८०९॥
न हि कत्ता कजं ति य जुगवुप्पत्तीए जीव-कम्माणं । जुत्तो ववएसोऽयं जह लोए गोविसाणाणं ॥१८१०॥
न च जीवात् पाक् कर्मणोऽपि समुद्भवो युक्तः, कर्तुर्जीवस्य तदानीमभावात् , अक्रियमाणस्य च कर्मत्वायोगात् , निष्कारणश्वेत्थमसौ कर्मसमुद्भवः स्यात् , ततोऽकारणजातस्याकारणत एव विनाशोऽपि स्यादिति । तथा, युगपदुत्पत्तिभावे च 'प्रत्येकपक्षोक्ता दोषाः वाच्याः" इति शेषः-निर्हेतुकत्वात् प्रत्येकवदुभयस्यापि समुदितस्यानुत्पत्तिरित्यादि । न च युगपदुत्पन्नयोर्जीव-कर्मणोः कर्तृ-कर्मभावो युज्यत इत्येतदेवाह- 'न हीत्यादि' न हि युगपदुत्पन्नयोर्जीव-कर्मणोः 'अयं जीवः कर्ता' 'इदं वा ज्ञानावरणादिपुद्गलनिकुरम्बं कर्य' इति व्यपदेशो युज्यते, यथा लोके सव्ये-तरगोविषाणयोरिति ॥ १८०९ ॥ १८१० ।। द्वितीय मूलविकल्पमधिकृत्याह
, भवेत् स नित्यमुक्तो बन्धाभावे को वा तस्य मोक्षः। न हि मुक्तव्यपदेशो बन्धाभावे मतो नभसः ॥ १८०८ ॥ २ न च कर्मणोऽपि पूर्व कर्तुरभावे समुद्भवो युक्तः । निष्कारणकः सोऽपि च तथा युगपदुत्पत्तिभावे च ॥ १८०९ ॥ नहि कर्ता कार्यमिति च युगपदुत्पची जीव-कर्मणोः । युक्तो व्यपदेशोऽयं यथा लोके गोविषाणयोः ॥ 161.॥
21 I७३
ASTRA
Jan Education Internation
Foron and Private Use Only