SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥७३५॥ Jain Educationa Internati मेन घटे सद्भावात् । अत्र यथासंख्यमुदाहरणद्वयम् । यथा 'द्रुमः' इत्युक्ते चूतः, अचूतो वा निम्बादिर्गम्यते, द्रुमत्वस्य सर्वत्र भावात् । 'चूत:' इति तु निगदिते द्रुम एव गम्यते, अद्रुपस्य चूतत्वायोगादिति ।। १७२४ ॥ यदुक्तम् - यदेतज्जातं न जायते, नाप्यजातम्, न च जाताजातम्, नापि जायमानम्' इत्यादि, तत्रोत्तरमाह-'किं तं जायं ति मई जाया जाओ भयं पि जदजायं । अह जायं पि न जायं किं न खपुष्फे वियारोऽयं ॥ १७२५॥ प्रष्टव्योऽत्र देवानांप्रियः, कथय- किं तद् वस्तु जातमिति प्रतिपद्यते तव मतिः, यज्जाता जातो भयादिप्रकारैरजातं साध्यतेयस्य जाताजातादिप्रकारैर्जन्म त्वया निषिध्यत इत्यर्थः । यदि हि जातं किमपि वस्तु तव सिद्धं तर्हि तत्सच्खेनैव प्रतिहता शून्यता, अतः 'किं तज्जातं जायते ? किं तदजातं जायते ? किं तज्जाताजातं जायते ?' इत्यादयः शून्यतासिद्ध्यर्थमुपन्यस्यमाना निरर्थका एव विकल्पा इति प्रच्छकाभिप्रायः । अथ तदपि जातं जाताजातादिविकल्पाश्रयभूतं जातत्वेन भवतो न सिद्धम्, किन्त्वजातमेव तत्, ननु स्ववचनविरुद्धमिदं जातमप्यजातमिति । किञ्च, जातस्यासच्चे निराश्रयत्वाज्जाताजातादिविकल्पा निरर्थका एव । अथैतदाश्रयभूते जाताख्ये वस्तुन्यसिद्धेऽपि 'न जातं जायते' इत्यादिविकल्पविचारः प्रवर्तते तर्हि खपुष्पेऽप्यसौ किं न विधीयते, असत्त्वाविशेषेण 'समया विवज्जओ वा' इत्यादिव्यक्तदोषप्रसङ्गात् ? । न च वक्तव्यं परेषां सिद्धं जातमुररीकृत्य विकल्पा विधीयन्ते, स्व-परभावाभ्युपगमे शून्यताहानिरिति ॥ १७२५ ।। अपि च, जैइ सव्वहा न जायं किं जम्माणंतरं तदुवलम्भो । पुव्वं वाऽणुवलंभो पुणो वि कालंतरहयस्स ? ॥१७२६ ॥ यदि सर्वैरपि प्रकारैर्घटादि कार्य न जातमिति शून्यवादिना प्रतिपाद्यते, तर्हि मृत्पिण्डाद्यवस्थायामनुपलब्धं कुलालादिसामग्रीनिर्वर्तितजन्मानन्तरं किमिति तस्मात् तदुपलभ्यते ? । पूर्व वा जन्मतः किमिति तस्यानुपलम्भः १ । पुनरपि च कालान्तरे लगुडादिना हतस्य किमिति तस्यानुपलम्भ: ? । अजातस्य गगननलिनस्येव सर्वदैव घटादेरनुपलम्भ एव स्यात्, यस्तु कदाचिदुपलम्भः, कदाचित्तु नोपलम्भः, असौ जातस्यैवोपपद्यत इति भावः ।। १७२६ ।। १ किं तज्जातमिति मतिर्जाता ऽजातो भयमपि यद्यजातम् । अथ जातमपि न जातं किं न खपुष्पे विचारोऽयम् ॥ १७२५ ॥ २ गाथा १७०८ ॥ ३ यदि सर्वथा न जातं किं जन्मानन्तरं तदुपलम्भः । पूर्व वाऽनुपलम्भः पुनरपि कालान्तरहतस्य ? ॥ १७३६ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।।७३५ ।। www.janelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy