SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥७३६॥ | Jan Education Interna किश्व, जह सव्वा न जायं जायं सुण्णवयणं तहा भावा । अह जायं पि न जायं पयासिया सुण्णया केण ॥१७२७|| ' शून्यं सर्व जगत् ' इत्येवंभूतं यच्छून्यताविषयं विज्ञानं वचनं च तद् यथा जाता-जातादिप्रकारैः सर्वथा जातमप्यजातमपि सत् केनापि प्रकारेण तावज्जातम्, तथा भावा अपि घट-पटादयो जाता एव्या इत्यतो न शून्यं जगत् । अथ शून्यताविज्ञान-वचनद्वयं जातमप्यजातमिष्यते, तर्हि तद्विज्ञान-वचनाभ्यां विना केनासौ शून्यता प्रकाशिता, १- न केनचिदिति शून्यतानुपपत्तिरिति ॥ १७२७॥ यदप्युक्तम्- 'न जातं जायते नाप्यजातम्' इत्यादि, तदप्ययुक्तम्, यतो विवक्षया सर्वेरपि प्रकारैर्यथासंभवं वस्तु जायते, किञ्चित्तु सर्वथा न जायते इति दर्शयति जाय जायमजायं जायाजायमह जायमाणं च । कज्जमिह विवक्खाए न जायए सव्वा किंचि ॥ १७२८ ॥ रूवित्ति जाइ जाओ कुंभो संठाणओ पुणरजाओ । जायाजाओ दोहि वि तस्समयं जायमाणो ति ॥ १७२९॥ पुव्यकओ उ घडतया परपज्जाएहिं तदुभएहिं च । जायंतो य पडतया न जायए सव्वहा कुंभो ॥ १७३० ॥ वोमाइ निच्चजायं न जायए तेण सव्वहा सोम्म ! । इय दव्वतया सव्वं भवणिज्जं पज्जवगईए ॥ १७३१ ॥ इह कार्य घटादिकं विवक्षया किमपि जातं जायते किञ्चिदजातम्, किञ्चिज्जाताजातम्, किश्चिज्जायमानम्, किश्चित्तु सर्वथा न जायत इति । अथ यथाक्रममुदाहरणानि - 'ख्वीत्यादि' रूपितया घटो जातो जायते, मृद्रूपतायाः प्रागपि भावात्, तद्रूपतया जात एव घट जायत इत्यर्थः । संस्थानतयाऽऽकारविशेषेण पुनः स एवाजातो जायते, मृत्पिण्डाद्यवस्थायामाकारस्यासंभवात् । मृद्रूपतया, आकारविशेषेण चेति द्वाभ्यामपि प्रकाराभ्यां जाताजातो जायते, तदनर्थान्तरभूतत्वाद् घटस्य । तथा, अतीतानागतकालयोर्विनष्टा १ यथा सर्वधा न जातं जातं शून्यवचनं तथा भावाः । अथ जातमपि न जातं प्रकाशिता शून्यता केन ? | १७२७ ॥ २ जायते जातमजातं जाताजातमथ जायमानं च कार्यमिह विवक्षया न जायते सर्वथा किञ्चित् ।। १७२८ ॥ रूपीति जायते जातः कुम्भः संस्थानतः पुनरजातः। जाताजातो द्वाभ्यामपि तत्समयं जायमान इति ॥ १७२९ ॥ पूर्वकृतस्तु घटतया परपर्यायैस्तदुभयैश्च । जायमानश्च पटतया न जायते सर्वधा कुम्भः ॥ १७३० || व्योमादि नित्यजातं न जायते तेन सर्वथा सौम्य ! इति द्रव्यतया सर्व भजनीयं पर्यवगत्या ॥ १७३१ ॥ For Personal and Private Use Only वृहद्वृत्तिः । ॥७३६ ॥ www.janeibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy