SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥७३७॥ Jain Education Internati नुत्पन्नत्वात् क्रियानुपपत्तेर्वर्तमानसमय एव क्रियासद्भावात् तत्समयं वर्तमानसमयं जायमानो जायते । किश्चित्तु सर्वथा जाता-जाता - दिप्रकारैर्न जायते । किं पुनस्तत् ? इत्याह- 'पुव्त्रकओ उ इत्यादि' पूर्वकृतस्तु पूर्वनिष्पन्नो घटो घटतया जाता-जातादिविकल्पानां मध्यादेकेनापि प्रकारेण न जायते, पूर्वमेव जातत्वात् । किं घटतयैव न जायते । न, इत्याह- 'परपज्जाएहिं ति' तथा, पटादिगतैः परपर्यायैश्च घटो न जायते, स्त्रपर्यायाणां पूर्वमेव जातत्वात्, परपर्यायैश्च कदाचित् कस्याप्यभवनात् । स्व-परपर्यायैः पूर्वकृतघटो न जायते, जाता-जातपट- खरविषाणवदिति भावः । तथा, जायमानोऽपि वर्तमानक्रियाक्षणसमये पटतया घटो न जायते, पररूपतया कस्याप्यभवनात् । किं पूर्वकृतो घट एवेत्थं न जायते, आहोस्विदन्यदपि किश्चिद् न जायते ? इत्याह- 'वोमाईत्यादि' न केवलं पूर्वकृतो घटो घटतया न जायते, तथा व्योमादि च तेन कारणेन सौम्य ! सर्वथा जातादिभिः सर्वैरपि प्रकारैर्न जायते, येन किम् ? इत्याह- येन नित्यजातं सर्वदाऽवस्थितम्, हेतुद्वारेण विशेषणमिदम्, नित्यजातत्वाद् न जायत इत्यर्थः । उक्तस्यैवार्थस्योपसंहारव्याजेन तात्पर्यमुपदर्शयन्नाह - 'इयेत्यादि' इत्युक्तप्रकारेण सर्वमपि घट-पट व्योमादिकं वस्तु द्रव्यतया द्रव्यरूपेण 'न जायते' इतीहापि संबध्यते, तद्रूपतया सदावस्थितत्वादिति भावः । पर्यायगत्या पर्यायचिन्तया पुनः सर्वे भजनीयं विकल्पनीयम् - पूर्वजातं घटादिकं रूपादिभिः स्वपर्यायैरपि न जायते, पूर्वजातत्वादेव, अजातं तु तत् स्वपर्यायैर्जायते, परपर्यायैस्तु किञ्चिदपि न जायते, इत्येवं पर्यायचिन्तायां भजना । एतच प्रायो दर्शितमेवेति ।। १७२८ ।। १७२९ ।। १७३० ।। १७३१ ॥ अथ यदुक्तम्- 'सर्व सामग्री मयं दृश्यते, सर्वाभावे च कुतः सामग्री ?' तत्र प्रतिविधानमाह 'दीसइ सामग्गिमयं सव्वमिह त्थि न य सा, नणु विरुद्धं । घेप्पइ व न पच्चक्खं किं कच्छपरोमसामग्गी ? ।। १७३२ ॥ इह यदुक्तम्– 'सर्वमपि कार्य सामग्रयात्मकं दृश्यते, सर्वाभावे च नास्ति सामग्री' इति । तदेतद् विरुद्धमेव, प्रस्तुतार्थप्रतिपादकत्वात्, वचोजनककण्ठौ-ए-ताल्वादिसामग्रचाः प्रत्यक्षत एवोपलब्धेः । अथ ब्रूषे- अविद्योपप्लवादविद्यमानमपि दृश्यते, यत उक्तम्“काम-स्वप्न-भयो-न्मादैरविद्योपप्लवात् तथा । पश्यन्त्यसन्तमप्यर्थं जनः केशेन्दुकादिवत् ॥ १ ॥” इति । यद्येवम्, तर्ह्यसत्रे सामान्येऽपि कच्छपरोमजनकसामग्री किमिति प्रत्यक्षत एवं नोपलभ्यते ?, समता विपर्ययो वा कथं न स्यादिति वाच्यम् इति ॥ १७३२ ॥ 1 दृश्यते सामग्रीमयं सर्वमिहास्ति न च सा, ननु विरुद्धम् । गृह्यते वा न प्रत्यक्षं किं कच्छपरोमसामग्री ? ॥ १७३२ ॥ ९३ For Personal and Private Use Only) बृहद्वृत्तिः । ॥७३७॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy