________________
विशेषा०
॥७३८ ॥
Jain Educationa Internationa
किश्च
सामग्गिमओ वत्ता वयणं चत्थि जइ तो कओ सुण्णं । अह नत्थि केण भणिअं वयणाभावे सुयं केण १ ॥ १७३३ ॥ बृहद्वृत्तिः । सामग्री- उर:- शिरः कण्ठौष्ठ तालु-जिह्वादिसमुदायात्मिका तन्मयः सामन्यात्मको वक्ता, तद्वचनं चास्ति नवा ? । यद्यस्ति, तर्हि कुतो जगच्छ्रन्यत्वम्, तद्वक्तृ-वचनसत्त्वेनैव व्यभिचारात् ? । अथ तद्वक्तृ-वचने न स्तः, तर्हि वक्तु वचनाभावे केन भणितं शून्यं जगत् (१- न केनचित् । सर्वशून्यत्वे च प्रतिपाद्यस्याप्यभावात् केन तच्छ्रन्यवचः श्रुतम् १ इति ।। १७३३ ।। अत्र पराभिप्रायमाशङ्कय परिहरन्नाह -
जेणं चैव नवत्ता वयणं वा तो न संति वयणिज्जा । भावा तो सुण्णमिदं वयणमिदं सच्चमलियं वा ? ॥ १७३४॥ इसचं नाभावो अहालियं न प्पमाणमेयं ति । अब्भुवगयं ति व मई नाभावे जुत्तमेयं ति ॥ १७३५॥
येनैव न वक्ता, नापि च वचनम्, ततस्तेनैव न सन्ति वचनीया भावा इति, अतः शून्यमिदं जगदिति । अत्रोच्यते - यदेतद् वक्तृवचन-वचनीयानां भावानामभावप्रतिपादकं वचनं तत् सत्यमलीकं वा ? | यदि सत्यम्, तर्ह्यस्यैव सत्यवचनस्य सद्भावाद् नाभावः सर्वभावानाम् । अथालीकमिदं वचनम्, तर्ह्यप्रमाणमेतत्, अतो नातः शून्यतासिद्धिः । अथ यथा तथा वाभ्युपगतमस्माभिः शून्यताप्रतिपादकं वचनम्, अतोऽस्मद्वचनप्रामाण्यात् शून्यतासिद्धिरिति तव मतिः । नैवम्, यतः 'सत्यम्, अलीकं वा त्वयेदमभ्युपगतम् ?” इत्यादि पुनस्तदेवावर्तते । किञ्च, अभ्युपगन्ता, अभ्युपगमः, अभ्युपगमनीयं वेत्येतत्रयस्य सद्भावेऽभ्युपगमोऽप्येष भवतो युज्यते, न च सर्वभावानामभावे एतत्रयं युक्तमिति ।। १७३४ ।। १७३५ ।।
अपि च,
* सिकयासु किं न तेल्लं सामग्गीउ तिलेसु वि किमत्थि ? । किंव न सव्वं सिज्झइ सामग्गीउ खपुष्फाणं ? ॥ १७३६ ॥
१ सामग्रीयो वक्ता वचनं चास्ति यदि ततः कुतः शून्यम् । अथ नास्ति केन भणितं वचनाभावे श्रुतं केन ? ॥ १७३३ ॥
२ येनैव न वक्ता वचनं वा ततो न सन्ति वचनीयाः । भावास्ततः शून्यमिदं वचनमिदं सत्यमलोकं वा ? ॥ १७३४ ॥ यदि सत्यं नाभावोऽथालीकं न प्रमाणमेतदिति। अभ्युपगतमिति वा मतिर्नाभावे युक्तमेतदिति ॥ १७३५ ॥
३ सिकतासु किं न तैलं सामग्रीत स्तिलेष्वपि किमस्ति ? किंवा न सर्व सिध्यति सामग्रीतो खपुष्पानाम् ? ॥ १७३६ ॥
For Personal and Private Use Only
॥७३८ ॥
www.jainelibrary.org