________________
विशेषा.
॥७३९॥
सर्वभावानामसत्त्वे सर्वोऽपि प्रतिनियतो लोकव्यवहारः समुच्छिद्यते, तथाहि- भावाभावस्य सर्वत्राविशिष्टत्वात् किमिति सिकताकणसामग्रीतस्तैलं न भवति, तिलादिसामग्य वा तत् किमस्ति । किं वा खपुष्पसामग्रीतः सर्वमपि कार्यजातं न सिध्यति। न चैवम् , तस्मात् प्रतिनियतकार्यकारणभावदर्शनाद् नाभावसामग्रीतः किमप्युत्पद्यते, किन्तु यथास्वभावसामग्रीतः, तथा च सति न शून्यं जगदिति ॥ १७३६ ॥
किञ्च,
सव्वं सामग्गिमयं नेगंतोऽयं जओऽणुरपएसो। अह सो वि सप्पएसो जत्थावत्था स परमाणू॥ १७३७ ॥
सर्व सामग्रीमयं सामग्रीजन्यं वस्त्वित्ययमपि नैकान्तः, यतो घणुकादयः स्कन्धाः सप्रदेशत्वाद् द्यादिपरमाणुजन्यत्वाद् भवन्तु सामग्रीजन्याः, परमाणुः पुनरप्रदेश इति न केनचिजन्यते, इति कथमसौ सामग्रीजन्यः स्यात् ? । अस्ति चासौ, कार्यलिङ्गगम्यत्वात् । उक्तं च
"मूर्तेरणुरप्रदेशः कारणमन्त्यं भवेत् तथा नित्यः । एकरस-वर्ण-गन्धो द्विस्पर्शः कालिङ्गश्च ॥ १॥" अथायमपि सप्रदेशः, तीतत्पदेशोऽणुर्भविष्यति, तस्यापि सप्रदेशत्वे तत्पदेशोऽणुरित्येवं तावत् , यावद् यत्र कचिद् निष्पदेशतया भवबुद्धेरवस्थानं भविष्यति, स एव परमाणुः, तेनापि च सामग्रीजन्यत्वस्य व्यभिचार इति ॥ १७३७ ।।
न सन्त्येव ते परमाणवः, सामग्रीजन्यत्वाभावादित्याशङ्कयाह
दीसइ सामग्गिमयं न याणवो संति नणु विरुद्धमिदं। किं वाणूणमभावे निप्फण्णमिणं खपुप्फेहिं ? ॥१७३८॥लि
'सामग्रीमयं सर्व दृश्यते' इति भवतैव मागुक्तम् , 'अणवश्च न सन्ति' इत्यधुना ब्रूषे, ननु विरुद्धमिदम् , यथा 'सर्वमप्यनृतं वचनम्' इति ब्रुवतः स्ववचनविरोधः, तथाऽत्रापीत्यर्थः । यदेव हि सामग्रीमयं किमपि दृश्यते भवता, तदेवाणुसंघातात्मकम् , अतः खवचनेनैव प्रतिपादितत्वात् कथमणवो न सन्ति ? इति भावः। किश्च, अणुनामभाव इदं सर्वमपि घटादि कार्यजातं किं खपुष्पैनि
OH७३९।
१ सर्व सामग्रीमयं नैकान्तोऽयं यतोऽणुरप्रदेशः । अथ सोऽपि सप्रदेशो यत्रावस्था स परमाणुः ॥ १७३७॥ २ दृश्यते सामग्रीमयं न चाणवः सन्ति ननु विरुदमिदम् । किं बाऽणूनामभावे निष्पमिदं खपुष्पैः ॥ १७३८ ॥
हालसर
Jan Education interna
Forson and Private Use Only
www.jainelbrary.org