________________
पमम् , परमाण्वभाव तज्जनकमृत्पिण्डादिसामग्यभावात् । इति भावः। तस्माद् यस्मात् सामग्रीमयं दृश्यत इति प्रतिपद्यते भवता,
' बृहद्वत्तिः । विशेषातदेव परमाणव इति ॥ १७३८ ॥
यदुक्तम्- 'परभागादरिसणओ सब्वाराभागसुहमयाओ य' इत्यादि, तत्र प्रतिविधानमाह॥७४०॥
देसस्साराभागोघेप्पइ न य सो त्ति नणु विरुद्धमिणं। सव्वाभावे विन सो घेप्पइ किं खरविसाणस्स ? ॥१७३९॥
यदुक्तम्- 'दृश्यस्यापि वस्तुनः परभागस्तावद् न दृश्यते, आराद्भागस्तु गृह्यते, परं सोऽप्यन्यान्यपरभागकल्पनया पागुक्तयुक्तितो नास्ति' इति । ननु विरुद्धमिदम्-'गृह्यतेऽसौ, न च समस्ति' इति । सर्वाभावाद् भ्रान्त्याऽसौ गृह्यत इति चेत् । तदयुक्तम् , यतः सर्वाभावे तुल्येऽपि किमिति खरविषाणस्य संबन्धी आराद्भागो न गृह्यते । । समता विपर्ययो वा कथं न भवति? इति ॥ १७३९ ॥
किन,
पैरभागाादरिसणओ नाराभागो वि किमणुमाणं ति। आराभागग्गहणे किं व न परभागसंसिद्धी? ॥१७४०॥
'परभागमात्रादर्शनादाराद्भागोऽपि नास्ति' इत्यत्र किमनुमानं भवतः । एतदुक्तं भवति- यत् प्रत्यक्षेण सकललोकप्रसिद्ध सदग्नेरौष्ण्यमिव कथमनुमानेन बाध्यते। आराद्भागस्य ह्यापेक्षिकत्वात् तदन्यथानुपपत्तेः परभागानुमानं तावदद्यापि युज्यते । यस्तु परभागादर्शनमात्रेणैव तनिहवः, सोऽसंबद्ध एव, सत्स्वपि देशादिविप्रकृष्टेषु मेरु-पिशाचादिष्वदर्शनसंभवात् । तस्माद् न परभागादर्शनमात्रेणाराद्भागोऽपत्रोतव्यः । किश्च, आराद्भागग्रहणे परभागानुमानं युज्येतापीति भाष्यकारोऽप्याह- 'आरामागेत्यादि' आराद्भागग्रहणे कथं न परभागसंसिद्धिः? अपि तु तत्संसिद्धिरेव, तथाहि-दृश्यवस्तुनः परभागोऽस्ति, तत्संबन्धिभूतस्याराद्भागस्य ग्रहणात् , इह यत्संबन्धिभूतो भागो गृह्यते तत् समस्ति, यथा नभसः पूर्वभागे गृहीते तत्संबन्ध्यपरभागः, गृह्यते च घटादेराराद्भागः, अतस्तत्संबन्धिभूतः परभागोऽप्यस्ति । यच्चोक्तम्- 'आराद्भागस्याऽप्यन्य आराद्भागः कल्पनीयः, तस्याप्यन्य इत्यादि तावत् , यावत् सर्वारातीयभागः' इति । अत्रापि परभागस्यासत्त्वे सर्वारातीयभागपरिकल्पनमनुपपन्नमेव स्यात् । तस्मादस्ति परभाग इति ॥ १७४०॥
ROH |७४०॥ १ गाथा १६९६ । २ देशस्याराभागो गृह्यते न च स इति ननु विरुद्धमिदम् । सर्वाभावेऽपि न स गृह्यते किं खरविषाणस्य ? ॥ १७३९॥ ३ ज.'स्तु दृश्यते । परभागादर्शनतो नारागागोऽपि किमनुमानमिति । आराशागग्रहणे किं वा न परभागसंसिद्धिः ॥ 10.॥
नम
:
BE
Jan Education Internationa l
For Pessoal and Private Use Only
AVAaww.jainelterary.airy