SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६३७॥ आसां भावार्थः कथानकादवसेयः । तच्च ‘गोणी चन्दनकथा' इत्यत्र सविस्तरं कथितमेव । इह चेत्थप्नुपनयोऽपि द्रष्टव्यःयः शिष्योऽशिवोपशमिका भेरी प्रथपरक्षक इव जिन-गणधरप्रदत्तां श्रुतरूपां भेरी परमतादिथिग्गलकैः कन्धीकरोति स न योग्यः, यस्तु नैवं करोति स द्वितीयभेरीरक्षक इव योग्य इति ॥ १४७६ ॥ १४७७ ।। १४७८ ॥ १४७९ ॥ अथाभीरीदृष्टान्तं विवृण्वन्नाह मुकं तया अगहिए दुपरिग्गहियं कयं तया, कलहो । पिट्टण-अइचिरविक्कय गएसु चोरा य ऊणग्घे ॥१४८०॥ ___ इह च कथानकेन भावार्थ उच्यते, तद्यथा- कुतश्चिद् ग्रामाद् गोकुलाद् वाऽऽभीरीसहित आभीरो घृतवारकाणां गन्त्री भृत्वा विक्रया) पत्तने समागतः । विक्रयस्थाने च गन्व्या अधस्ताद् भूमावीभीरी स्थिता । आभीरस्तूपरि स्थितस्तस्या घृतवारक समर्पयति । ततश्चानुपयोगेन समर्पणे, ग्रहणे वा घृतवारके भग्ने आभारी प्राह- भग्नाश ! नगरतरुणीनां मुखान्यवलोकयमानेन त्वया घृतवारकोऽयं मयाऽगृहीत एव मुक्तः, ततो भग्नः। आभीरस्त्वाह- रण्डे ! नगरयूनां वदनानि वीक्षमाणया त्वयैव दुष्परिगृहीतोऽयं कृतः, ततो भग्नः, इत्युभयोरपि कलहः समभवत् । पिट्टिता च तेनाभीरी । कलहयतोश्च तयोरन्यदपि घृतं बहु च्छर्दितम् । उद्धरितशेषेण च घृतेनोत्सूरेऽर्थोऽप्यूनो लब्धः । इतरेषु सार्थिकेषु घृतं विक्रीय गतेषु तयोरेकाकिनोर्गच्छतोघृतद्रम्मा गन्त्री बलीवर्दाश्च सर्व तस्करैरपहृतमिति ॥ १४८०॥ एवं दृष्टान्तमभिधायोपनयमाह मा निण्हवइ य दाउं उवजुज्जिय देहि किं विचिंतेसि ? । वच्चामेलियदाणे किलस्ससि तं च हं चेव ॥१४८१॥ चिन्तनिकाद्यवस्थायां वितथं प्ररूपयन् , अधीयानो वा गुरुणा शिक्षितः शिष्यो जगाद- त्वयैव ममेत्थं व्याख्यातं, पाठितो वा त्वयैवैवंविधम् , अतस्तवैव दोषोऽयम् , किं मां शिक्षयसि । आचार्यः प्राह- न मयैवमुपदिष्टम् । कुशिष्यो ब्रवीति- हन्त ! साक्षादेव मम पुरस्सरमित्थं मूत्रमर्थं वा दचा सूरे ! मा निबोष्ठास्त्वम् । इत्थमुक्त आचार्यः किमप्यन्तायन् पुनरप्युक्तः शिष्याभासेन- 'किं बलीवत् पातित इव विचिन्तयसि, भव्यगत्योपयुज्योपयुक्तो भूत्वा देहि सूत्रा-ऽयौँ, व्यत्यानेडितदाने वितथमूत्रा-ऽर्थ१ गाथा १४३४ । २ मुक्तं त्वयाऽगृहीते दुष्परिगृहीतं कृतं त्वया, कलहः । पिट्टना-ऽतिचिरविक्रयी गतेषु चौराथोनाः ॥ १४८॥ ३ मा निहोष्ठान दत्त्वोपयुज्य देहि किं विचिन्तयसि ! । व्यत्यानेडितदाने क्लिश्यावस्त्वं चार चैव ॥ १४८१ ॥ marate ॥६३७॥ Jan Educ a tio For Personal and its Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy